SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ संस्कृत कृति [मूल] ७ तेनो उपयोग लोकना कार्यमां विना विशेष औषधियो नाम ये विशेषपणे औषधियोनुं नाम विना सामान्यथी कार्यसिद्धि कोइ प्रकारे न थाय । माटे व्यवहारनय ते विशेष ज प्रधान मांने छे ए व्यवहारनय ए भावार्थ ॥८॥९॥१०॥ ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम्। मन्यते केवलं किन्तु वर्तमानं तथा निजम् ॥११॥ अतीतेनानागतेन परकीयेन वस्तुना । न कार्यसिद्धिरित्येतदसद्गगनपद्मवत्॥१२॥ नामादिषु चतुः स्वेषु भावमेव च मन्यते। न नामस्थापनाद्रव्याण्येवमग्रेतना अपि॥१३॥ [टीका] ऋजुसूत्रनयस्तु ऋजु = सरलं वर्तमानं सूत्रयति = सङ्कल्पयतीति ऋजुसूत्रः स चासौ नयश्च। नातीतम् अतीतः = पूर्वानुभूतपर्यायस्तं वस्तुतया न मन्यते, तस्य विनष्टत्वात्। नापि अनागतं = भविष्यभावम्, तस्याद्याप्यनुत्पन्नत्वात्। किन्तु केवलम् = एकं वर्तमानपर्यायम्, तथा निजं स्वकीयं च भावं वस्तुतया मन्यते, कार्यकारित्वात्॥११॥ = कस्मादेवम्? इत्यतः आह अतीतो = विगतो भावस्तेन अनागतो = भविष्यमानो यो भावस्तेनापि । परकीयो यथा सामान्यनरस्य पूर्वतनो वा भविष्यत्पुत्रजीवोऽधुना राजपुत्रत्वं प्राप्तः परं सः परकीयस्तेन वस्तुना जिनैः कार्यसिद्धिर्नोक्ता इति कृत्वा एतदतीतानागतपरकीयपर्यायरूपं वस्तु गगनपद्मवद् = आकाशारविन्दवद् असद् = अविद्यमानं मन्यते॥१२॥ अयम् = ऋजुसूत्रनयः एषु = अनन्तरवक्ष्यमाणेषु चतुर्षु निक्षेपेषु एकं भावनिक्षेपमेव वास्तवं मन्यते, नामस्थापनाद्रव्याणि न मन्यते, तेषां परकीयत्वादनुत्पन्नविनष्टत्वाच्च । तत्र नाम वक्तु... रूपरूपं वा गोपालदारकादिषु गतमिन्द्राभिधानं परकीयम्। स्थापना चित्रपटादिरूपा परकीया । द्रव्यं पुनर्भाविभावस्य कारणं तच्चानुत्पन्नम्, भूतभावस्य कारणं तु विनिष्टम् । एवमग्रेतनाः शब्दादयस्त्रयो नयाः भावनिक्षेपमेव स्वीकुर्वन्तीत्यर्थः॥१३॥ [टबार्थ] [शब्दार्थ] ऋजुसूत्रनय जे ते वस्तु प्रते नहि अतीत (गयेला) नहि पण वली अनागत(आवनारुं) माने छे। केवल(एकलुं) स्युं? तो(फक्त) वर्तमान एवं (चालतुं) एवं तेम वलि पोतानुं॥११॥ अतीते भूतकालने करि अनागते भविष्यत्कालने पारके एवे करी वस्तुयो करी नहि कार्यनी सिद्धि एम आ जे तें अछतुं नथी आकाशना कमल जेवुं जेम नथी तेम ॥ १२॥ नाम, स्थापना, द्रव्य, भाव एम निक्षेपामां चारेमांथी भावनिक्षेपाने वली माने छे। नहि नाम, स्थापना, द्रव्य एम आगलना नयो पण ॥ १३ ॥ भावार्थ:- हवे ऋजुसूत्रनय चोथो ते त्रणकालमां भूत तथा भविष्यत् ए बे कालात्मक नथी मानतो केवल (एकलो) वर्तमानकालात्मक ज माने छे । तथा भूत भविष्यत् एवी परायी वस्तुये करि कार्यसिद्धि आकाश कमल जेवी नथी मूलथी जे एम। तथा वली चार निक्षेपा नाम (१) स्थापना (२) द्रव्य (३) भाव (४) ए चार निक्षापाओमां एकला भाव निक्षेपाने ज माने छे। एम आगलना नयो ते पण एकला भावनिक्षेपाने ज माने छे ए चोथो ऋजुसूत्रनय ए भावार्थ ॥११॥१२॥१३॥
SR No.007790
Book TitleNayamrutam Part 02
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages202
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy