________________
संस्कृत
[मूल] नैगमो मन्यते वस्तु तदेतदुभयात्मकम्। निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥५॥ [का] तदेतत् त्वदुक्तपूर्वो नैगमो = नैगमनामा नयः उभयात्मकं वस्तु मन्यते । उभौ द्वौ सामान्यविशेषौ अवयवौ आत्मा = स्वरूपं यस्य वस्तुनस्तदुभयात्मकं तत्तादृग्रूपं वस्तु = पदार्थं मन्यते = स्वीकरोति । कुतः? त्वदाज्ञायां निर्विशेषं सामान्यं न। निर्गतो = दूरीभूतो विशेषो = विशेषणं पर्यायो वा यस्य तन्निर्विशेषम्, ईदृग्रूपं सामान्यं न विद्यते । तद्विना = सामान्यं विशेष्यं वा द्रव्यं विना रहितो विशेषो न विद्यते। अतः उभयात्मकं गृह्णाति । (शं) तर्हि सम्यग्दृष्टिरयमिति चेन्न, अयं हि द्रव्यं पर्यायं च द्वयमपि सामान्यविशेषयुक्तं मन्यते ततो नायं सम्यग्दृष्टिरित्यर्थः॥५॥
[टबार्थ] [शब्दार्थ] नैगमनय माने वस्तु ते आ सामान्य विशेषे युक्त एवं विशेष वि सामान्य तथा विशेष ते पण नहि तेना विना ॥ ५॥
भावार्थ:- नैगम पेलो। ते वस्तुने सामान्य तथा विशेषे सहित छे एम माने छे कारण के सामान्य छे ते विशेष रहित होय नहि तेम ज विशेष पण सामान्य रहित न होय । जेम वृक्ष विना शाखाओ नहि, शाखाओ विना वृक्ष नहि एम स्वाभाविक संबंधे करी अभेदपणे बेने माने छे ए नैगम। एटले तैणे कालने वर्तमान कालरूपे माने छे ए भावार्थ ॥ ५ ॥
[टीका]
सङ्ग्रहः
[मूल] सङ्ग्रहो मन्यते वस्तु सामान्यात्मकमेव हि। सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् ॥ ६॥ विना वनस्पतिं कोऽपि निम्बाम्रादिर्न दृश्यते । हस्ताद्यन्तर्भाविन्यो नाङ्गुल्याद्यास्ततः पृथक्॥७॥ सङ्ग्रहनामा नयस्तु सामान्यं = द्रव्यसत्तामात्रं जातिमात्रं वा यत्तत्सामान्यं तदेवात्मा स्वरूपं यस्य तत्तथा। तद्वस्तु एव वस्तुतया मन्यते । कस्माद् ? हि सामान्यात्पृथक्भूतो विशेषो नास्ति न विद्यते, तद्विना विशेषः खपुष्पवत् आकाशकुसुमतुल्योऽस्तीति तवोपदेशो वर्तते तस्मात्॥६॥
=
यस्मात् सामान्यव्यतिरिक्तः
=
=
अस्यैवाभिप्रायं दृष्टान्तेन दृढयन्नाह—– वनस्पतिं = सामान्याभिधानाया वनस्पतेर्जातिस्तां विना तरुत्वत्यागेन निम्बाम्रादिः निम्बश्च आम्रश्च निम्बाम्रौ तावादी यत्र दृग्व्यापारे स निम्बाम्रादिः कोऽपि न दृश्यते= दृग्मार्गे नावतरति । यत्र यत्र वृक्षे दृग् व्याप्रियते तत्र तत्र वनस्पतित्वमेव दृश्यते। अतः सामान्यमेव वस्तु। एनमेव दृढयति — हि यस्माद् हस्तादिष्वङ्गेष्वन्तर्भाविन्यः अङ्गुल्यः, आदिशब्देन हस्ततललेखानखदन्ताक्षिपत्रादीनि यथा ततः हस्ताद्यङ्गतः पृथग् न भवन्ति तथा सामान्यतः पृथग् विशेषो नास्तीत्यर्थः ॥७॥
[टबार्थ] [शब्दार्थ] संग्रहनय माने छे वस्तु सामान्ययुक्त ज जे माटे सामान्यथी भिन्न (जुदो) छे नहि विशेष ते
आकाशना पुष्प जेवो ॥६॥
विना वनस्पतिना कोइ पण लेंबडा, आंबा प्रमुखोने न देखे हस्तादिना अंतर्भूत एवी जे माटे हि अंगुलि आदि तेथी जुदी ॥७॥
भावार्थ:- संग्रह नय बीजो। सामान्ययुक्त एवी ज वस्तु माने छे। कारण के सामान्यथी जुदो विशेष ते आकाशना पुष्प जेवो छे ज नहि। जेम आकाशना पुष्पनो अभाव छे तेम सामान्यथी जुदो विशेष अभाव छे।