________________
संस्कृत कृति
उपाध्यायश्रीविनयविजयगणिकृत
॥नयकर्णिका॥
(गंभीरविजयकृतटीका अज्ञातकर्तृक टबार्थ सहित) [मूल] वर्धमानं स्तुमः सर्वनयनद्यर्णवागमम्। सङ्खपतस्तदुन्नीतनयभेदानुवादतः॥१॥ [टीका] नीयन्ते प्राप्यन्ते सदंशाङ्गीकारेणेतरांशौदासीन्यतया वस्तुबोधमार्गं यैस्ते नयाः नैगमादयः। सर्वे च ते
नयाश्च सर्वनयास्त एव नद्यः सरितः तासामर्णवः समुद्रतुल्यः आगमो वाक्पथो यस्य स तथा। तं वर्धमानं = चरमजिनवरं वयं स्तुमः = स्तुतिविषयीकुर्मः। कुतः कस्मात्? तदुन्नीतनयभेदानुवादतः तत् =तस्य श्रीवर्धमानस्य उत् = प्राबल्येन नीताः = वचनरूपेण प्राप्ताः ये नयानां भेदाः = विशेषा: तेषामनुवादतः कथितस्यैव यत्कथनं तदनुवादस्तस्मात् अनुवादतः कुर्म इति शेषः कथम्?
सङ्क्षपतोऽल्पविस्तरत इति॥१॥ टबार्थ] [शब्दार्थ] श्रीवीरभगवान प्रते स्तविये छे सर्व नयरूप नदीयोना समुद्ररूप छे सिद्धांत आगम जे
एवा प्रते संक्षेपथी तेना प्ररूपेला एवा नयोना भेदोना अनुवादथी॥१॥ भावार्थ:- श्रीवर्धमानस्वामीने संक्षेपथी तेमना प्ररूपेला नयोना भेदोना अनुवादथी अमे स्तवित करिये छे। केवा
वर्धमानस्वामिने? सर्व नयरूप नदीयोना आश्रयरूप समुद्र समान छे जेना सिद्धांतो एवा वीर
भगवानने प्रशंसित करिये छे ए भावार्थ॥१॥ [मूल] नैगमः सङ्ग्रहश्चैव व्यवहारर्जुसूत्रको। शब्दः समभिरूद्वैवम्भूतौ चेति नयाः स्मृताः॥२॥ [टीका] नैगमेति। न एको गमो = विकल्पो यस्य स नैगमः पृथक् पृथक् सामान्यविशेषयोर्ग्रहणात्।(१)
सगृह्णाति विशेषान् सामान्यतया सज्ञायां क्रोडीकरोति यः सङ्ग्रहः।(२) वि = विशेषतयैव सामान्यम् अवहरति = मन्यते योऽसौ व्यवहारः।(३) ऋजु = वर्तमानमेव सूत्रयति = वस्तुतया विकल्पयति यः स ऋजुसूत्रकः।(४) द्वन्द्वे व्यवहारर्जुसूत्रको। काललिङ्गवचनैर्वाचकेन = शब्देन समं = तुल्यं पर्यायभेदेऽपि एकमेव वाच्यं मन्यमानः शब्दो नयः।(५) सम् = सम्यक्प्रकारेण यथा पर्यायैरारूढं अर्थं तथैव भिन्नवाच्यं मन्यमानः समभिरूढो नयः।(६) भूत-भूतशब्दोऽत्र तुल्यवाची, एवं =यथा वाचके शब्दे यो व्युत्पत्तिरूपो विद्यमानोऽर्थोऽस्ति तथाभूततत्तुल्यार्थक्रियाकारिणमेव वस्तु वस्तुवन्मन्यमान एवम्भूतो नयः।(७) द्वन्द्वे [द्विवचनम्।
इत्यमुना प्रकारेण हे! विभो! त्वया नयाः स्मृताः = स्वागमे कथिता इति शेषः॥२॥ [टबार्थ] [शब्दार्थ नैगमनय (१) संग्रहनय (२) वलि एम व्यवहारनय (३) ऋजुसूत्रनय (४) शब्दनय
(५) समभिरूढनय (६) एवंभूतनय (७) वलि ए सात नयो कह्या॥२॥