________________
१३४
विसेसचुण्णि
[मासकप्पपगयं __ जति निल्लेवमगंधं, पडिसिद्धं तं कहं नु जिणकप्पे ।
तेसिं चेव अवयवा, रुक्खासि जिणा न कुव्वंति ॥१७४०॥
"पिह सोयाई लोगे०" गाहा । ["जइ निल्लेव०"] यथा पृथक् पृथक् शौचविधिदृष्टा तथा अस्माकमपि अलेवमगन्धः शौचः निशिकल्पे मोयेनाप्याचमित्वा शुचिरेव । अत्राह चोयक:- यदि निर्लेपमगंधं शौचं दृष्टं, किं कारणं जिनकल्पिकानां प्रतिषिद्धं निर्लेपनं ? अनिर्लेपिते संति अवयवाः । आचार्याह-रूक्षाशिनत्वान्न निर्लेपयन्ति तेषामभिन्नवर्चस्त्वात्, न सन्त्यवयवाः, अवयवाऽभावात् कुतो गन्धः? यद्यभिन्नोच्चारत्वात् जिनकल्पिकाः शौचं न कुर्वन्ति, स्थविरकल्पिकास्तु अभिन्नोच्चारास्तेषां किं कारणं सञ्ज्ञामुत्सृज्य अवश्यशौचकरणमुक्तम् । अतोऽपदिश्यते -
थंडिल्लाण अनियमा, अभाविए इड्ढि जुयलमुड्डयरे। सज्झाए पडिणीए, न ते जिणे जं अणुप्पेहे ॥१७४१॥
"थंडिल्लाण अनियमा०" गाहा । प्रथमं स्थंडिलाद्यभावे शेषस्थंडिलान्यपि गम्यन्ते जिनवचनाऽभावितस्य च मा भूत् विपरिणामः । राजादीनामन्यतमस्याभिनवप्रव्रजितस्य वा शौचकरणमित्यर्थः । भावितस्य दुःखेन तद्भावो बुध्यते इति । 'युगलं' ति वृद्धबालौ तौ प्रायेन भिन्नोच्चारौ उड्डयरौ हस्तादि लेवाडयतः बालवुड्डा वा अन्नो वा उड्डयरो । सज्झाओ अणिल्लेविए थेरकप्पियाणं न वट्टइ वायाए काउं । पढमं थंडिल्लासतीए बिइयथंडिल्लं गयस्स सोयकरणमदटुं उडाहं करेंति पडिणीया । जिणकप्पिया सज्झायं मणेण करेंति । इयरेसिं मणसा सज्झायं करणे बहुणा वि कालेण जओ न भवति । सज्झाए थेरकप्पियाणं अवस्ससोयकरणं ।
एमेव अप्पलेवं, सामासेउं जिणा न धोवंति । तं पि य न निरावयवं, अहाठिईए उ सुझंति ॥१७४२॥
“एमेव०" गाहा । 'अप्पलेवं'ति अलेवाडभाजनमित्यर्थः, सामासेउं पि' संलिहित्ता । सेसं कण्ठ्य म् ।
मन्नंतो संसटुं, जं इच्छसि धोवणं दिणे बिइए। इत्थ वि सुणसु अपंडिय ! जहा तयं निच्छए तुच्छं ॥१७४३॥
“मन्नंतो०" गाहा । यदप्युक्तवानसि संसृष्टत्वात् गुर्वादीनां ओयवितमिति तुच्छं असारकमित्यर्थः ।
म.
।
१. सामासेउं ति इति भाव्यम् ?