________________
११२ विसेसचुण्णि
[मासकप्पपगयं कायादि तिहिक्किक्कं, चित्तं तिव्वमउयं च मज्झं च ।
जह सीहस्स गतीओ, मंदा य पुता दुया चेव ॥१६४२॥
"झाणं नियमा०" ["कायादि तिहि०"] गाहा । यतो न चिन्तामतीत्य दृढाध्यवसायित्वं भवत्यतश्चिन्ताध्यानयोरेकत्वं अन्यत्वं त्रिस्थानभजनां प्राप्य भवति । अनेन प्रकारेण यदि दृढाध्यवसायेन चिन्तयति तत एकत्वं चिन्ता-ध्यानयोः । अहढाध्यवसायेन त चित्तम । तत चिन्ताध्यानयोरन्यत्वम। एवं चिन्ताध्यानान्तरिकयोरपि योज्यम । तदव्यतिरिक्तं नाम दृढाध्यवसायव्यतिरिक्तं ध्यानान्तरिका वा न भवतीति कत्वा अहढाध्यवसायेन द्रव्य-क्षेत्रकालानामेकतरं चिन्तयतः शेषाः प्रत्यन्यत्वं चिन्तयति । द्रव्यादीनामन्यतमं प्रत्येकत्वम् ।
तत् पुनरदृढाध्यवसायचित्तं कायिकादि त्रिप्रकारं । कायिको यथा भंगान् करोति, वाचिकः पठति, मानसस्तदुपयोगः । एषामप्येकमेकं त्रिप्रकारं ज्ञेयम्-तीव्रमृदुमध्यश्चेति परिणामः । दृष्टान्तो यथा-सिंहस्य त्रिप्रकारा गतिक्रिया मंदा प्लुता दृढा चेति ।
स्यान्मतिः-का पुनानान्तरिका ? अत उच्यते -
अन्नतरझाणऽतीतो, बिइयं झाणं तु सो असंपत्तो। झाणंतरम्मि वट्टइ, विपहे व विकुंचियमईओ ॥१६४३॥
"अन्नतरझाण" गाहा । द्रव्यादीनामन्यतमं ध्यायतो यदा चित्तमुत्पद्यते 'शेषाणां कतरं ध्यायामीति' यो विमर्शः तां ध्यानान्तरिकेत्याहुः । दृष्टान्तो 'विपहे व विकुंचितमतीओ' । विपह इति, एष पन्था गच्छतः, यतः ग्रामद्वयस्य द्वे पंथानौ भवतः । ततस्तस्य जिगमिषोश्चित्तमुत्पद्यते-अनयोः कतरेण व्रजामीत्येवं द्रव्यादीनामन्यतमध्यायिनः शेषाणामन्यत् कतरद् ध्यायामीति विमर्शो ध्यानान्तरिकेत्युच्यते । शुभाशुभध्यानज्ञापनार्थमिदमुच्यते -
वण्णरसगंधफासा, इट्ठाऽणिट्ठा विभासिया सुत्ते ।
अहिकिच्च दव्वलेसा, ताहि उ साहिज्जई भावो ॥१६४४॥
"वन्नरसगंधफासा०" गाहा। सूत्रे उक्तं-कण्हलेसा णं भन्ते ! केरिसिया वन्नेणं पन्नत्ता? (प्रज्ञापनालेश्यापद प्र० १७.४. १८.१२२५-३२) इत्याद्यालापकाः यत् तदनेकप्रकारोपमाणं गीतं द्रव्यलेश्यामधिकृत्य प्रोक्तम् । द्रव्यलेश्यानामेते गवल-जंबूफलादयो वर्ण-गन्ध-रस-स्पर्शोपमानार्थमुक्ताः । तैरिष्टानिष्टैर्वर्णादिभिर्दढाध्यवसायभावः शुभाशुभ: साध्यते । तस्योपनयार्थमिदमुच्यते -
पत्तेयं पत्तेयं, वण्णाइगुणा जहोदिया सुत्ते । तारिसओ च्चिय भावो, लेस्साकाले वि लेस्सीणं ॥१६४५॥