________________
बुद्धिसागरः
(अन्वयः) यः वस्त्रपूतं तोयं पिबेत् सदा श्रीगुरुसुरातिथीन् अर्चयित्वा भुङ्कते ततः पाप्मा पलायते। (अर्थः) जो कपडे से छानकर पानी पीता है जो हमेशा गुरु, देव तथा अतिथियों की पूजा करके भोजन करता
है उससे पाप दूर भागते हैं। [मूल] पवित्रं षड्रसाकीर्णं सुपक्वं वल्लभाहृतम्।
भोजनं जीर्णतामेति भुक्तं मित्रादिभिः सह॥३०३॥(४.३८) (अन्वयः) पवित्रं षड्रसाकीर्णं सुपक्वं वल्लभाहृतं मित्रादिभिः सह भुक्तं भोजनं जीर्णतामेति। (अर्थः) शुद्ध, छह रसों से युक्त, अच्छा पका हुआ, पत्नी के द्वारा परोसा गया तथा मित्रों के साथ सेवन
किया गया भोजन (शीघ्र) पच जाता है। मूल] गव्यं घृतः सत्सलिलं च शीतं बाला बला क्षीरसुभोजनं च।
स्नानं सुभोज्यं हि यथोक्तकाले प्रोक्तानि षट् प्राणकराणि सद्यः॥३०४॥(४.३९) (अन्वयः) गव्यं घृतः सत्सलिलं शीतं च बाला बला, क्षीरसुभोजनं यथोक्तकाले स्नानं सुभोज्यं च सद्यः षट्
प्राणकराणि प्रोक्तानि। (अर्थः) गाय का घी, शुद्ध ठंडा जल,छोटी हरडे,खीर का भोजन,योग्य समय पर स्नान और अच्छा खाना ये छह चीजें तुरंत शक्ति देती है।
इति वैद्यकसारसङ्ग्रहः।
ज्योतिस्सारः।
मूल] ज्योतिःशास्त्रमनादृत्य पठन्नन्यच्च वाङ्मयम्।
न भाति परिपूर्णाङ्गो विचक्षुः पुरुषो यथा॥३०५॥(४.४०) (अन्वयः) (यः) ज्योतिःशास्त्रम् अनादृत्य अन्यद् वाङ्मयं पठन्, सः न भाति, यथा परिपूर्णाङ्गः विचक्षुः पुरुषः। (अर्थः) जो ज्योतिष शास्त्र को छोडकर अन्य वाङ्मय को पढता है, वह पुरुष उसी प्रकार नही शोभा देता,
जैसे अंग से परिपूर्ण ऐसा आँख रहित पुरुष हो। [मूल] अतस्तत्सारमुद्धत्य व्यवहाराय धीमताम्।
साधारणं सुसङ्क्षिप्तं ज्योतिषं किञ्चिदुच्यते॥३०६॥(४.४१) (अन्वयः) अतः तत्सारमुद्धत्य धीमतां व्यवहाराय साधारणं सुसङ्क्षिप्तं ज्योतिष किञ्चिद् उच्यते। (अर्थः) इसीलिए उसका(ज्योतिष) सार निकालके बुद्धिमानों के व्यवहार के लिए साधारण सुसंक्षिप्त ऐसा
ज्योतिष थोडासा कहते है।
१. अयं श्लोकः हस्तप्रतिषु न दृश्यते-को२०००८, को१५९३२, ओ २८७८