________________
चतुर्थः प्रकीर्णकतरङ्गः
[मूल] नन्दा भद्रा तथा पूर्णा शुभकार्ये शुभावहाः।
सङ्ग्रामादौ जया प्रोक्ता रिक्ता बन्धवधादिष॥३०७॥(४.४२) (अन्वयः) शुभकार्ये नन्दा भद्रा तथा पूर्णा शुभावहाः, सङ्ग्रामादौ जया, बन्धवधादिषु रिक्ता प्रोक्ता। (अर्थः) शुभ कार्य में नंदा, भद्रा और पूर्णा शुभ है, संग्रामादि में जया, और बन्ध वध इत्यादि में रिक्ता कही
गई हैं। [मूल] बुधशुक्रेन्दुजीवानां वाराः सर्वेषु कर्मसु।
शुभकराः परेषां च स्वोक्तकार्यैकसाधकाः॥३०८॥(४.४३) (अन्वयः) जीवानां सर्वेषु कर्मसु बुधशुक्रेन्दुवाराः शुभङ्कराः परेषां च स्वोक्तकार्यैकसाधकाः। (अर्थः) जीवों को सभी कर्मो में बुध, शुक्र और सोम ये वासर शुभ करनेवाले हैं, बाकी वासर अपने कहे
हुए कार्य को सिद्ध करनेवाले होते है। [मूल] शुक्रज्ञारशनीज्येषु नन्दादितिथयः शुभाः।
प्रतिपन्नैव सौम्येन न च सूर्येण सप्तमी॥३०९॥ (४.४४) (अन्वयः) शुक्रज्ञारशनीज्येषु नन्दादितिथयः शुभाः, प्रतिपन्नैव सौम्येन (शुभा) न च सूर्येण सप्तमी(शुभा)। (अर्थः) शुक्रवार को नंदा तिथि, बुधवार को भद्रा तिथि, मंगलवार को जया तिथि, शनिवार को रिक्ता तिथि,
गुरुवार को पूर्णा तिथि शुभ है। प्रतिपदा सोमवार में शुभ नहि, सप्तमी रविवार में शुभ नहि। [मूल] हस्तो मार्ग च दास्त्रं च मैत्रं पुष्यश्च रेवती।
रोहिणी ज्ञादिवारेषु स योगोऽमृत सिद्धिकः॥३१०॥(४.४५) (अन्वयः) ज्ञादि(अर्कादि)वारेषु हस्तो मार्गं च दास्त्रं च मैत्रं पुष्यश्च रेवती रोहिणी स योगोऽमृतसिद्धिकः। (अर्थः) रविवार को हस्त नक्षत्र, सोमवार को मृगशीर्ष नक्षत्र, मंगलवार को अश्विनी नक्षत्र, बुधवार को
अनुराधा नक्षत्र, गुरुवार को पुष्य नक्षत्र, शुक्रवार को रेवती नक्षत्र, शनिवार को रोहिणी नक्षत्र होने
पर अमृतसिद्धि योग बनता है।' [मूल| मघा विशाखा रौद्रं च मूलमग्निश्च रोहिणी।
हस्तः सूर्यादिवारेषु यमघण्टः क्रमाद्भवेत्॥३११॥(४.४६) (अन्वयः) सूर्यादिवारेषु क्रमाद् मघा विशाखा रौद्रं च मूलमग्निः रोहिणी हस्तः च यमघण्टः भवेत्।
१. नन्दा भृगौ बुधे भद्रा मन्दे रिक्ता कुजे जया। गुरौ पूर्णाखिले कार्य सिद्धियोगाः शुभावहाः॥ (शिल्परत्नाकर १४-१०५) २. योगस्त्व इति मु. भां ३. अर्के हस्तो मृगश्चन्द्रे गुरौ पुष्योऽश्विनी कुजे। अनुराधा बुधे शुक्रे रेवती रोहिणी शनौ।।
अमृतसिद्धियोगः स्यात् सर्वकार्यार्थसिद्धिदः। (शिल्परत्नाकर १४-१०७,१०८) हस्तसौम्याश्विनीमैत्रपुष्यपौष्णविरंचितैः।भवत्यमृतसिद्ध्याख्यो योगः सूर्यादिवारगैः॥ (आरम्भसिद्धि टीका-५२)