________________
बुद्धिसागरः
[मूल] बोधितां पवनाघातैः सुषुम्नान्तः प्रवेशयेत्।।
क्रमेण पञ्चचक्राणि भेदयित्वोर्द्धवगामिनीम्॥३९७॥(४.१३२) [मूल] नयेत्कुण्डलिनी चक्रे सहस्रदलसज्ञिते।
तत्र पीयूषपूर्णां तां कृत्वा सिद्धिं पराव्रजेत्॥३९८॥(४.१३३) (अन्वयः) शुद्धपवनाभ्यासकृत् शुचिः सुधीः सद्गुरोः सन्निधौ मूलात् बिशतन्तुनिभा सुप्तां कुण्डलिनी बोधितां
पवनाघातैः सुषुम्नान्तः प्रवेशयेत्, क्रमेण पञ्चचक्राणि भेदयित्वा उर्द्ध(@)गामिनी कुण्डलिनी
सहस्रदलसञ्जिते चक्रे नयेत्, तत्र तां पीयूषपूर्णां कृत्वा सिद्धिं पराव्रजेत्। (अर्थः) पवित्र और सद्बुद्धिशाली, शुद्ध पवन(प्राणयाम) की अभ्यास करनेवाला साधक सद्गुरू के सान्निध्य
में बैठकर कमल की नाल के समान सोई हुई कुण्डलिनी को जगाकर आघात देकर मूलाधार चक्र से सुषुम्णा नाडी में प्रवेश कराएँ क्रमशः छह चक्रों का भेद करके ऊपर जाती हुई कुण्डलिनी को सहस्रदल नाम के चक्र में ले जाएँ। वहाँ पर उसे अमतमयी बनाकर सिद्धि प्राप्त करे।
अथ हठयोगः। [मूल] मार्कण्डेयेन चाष्टाङ्गः षडङ्गस्तदनन्तरम्।
गोरक्षप्रमुखैः पूर्वं साधितोऽयं हठाभिधः॥३९९॥(४.१३४) (अन्वयः) मार्कण्डेयेन च अष्टाङ्गः तदनन्तरं गोरक्षप्रमुखैः षडङ्गः, पूर्वम् अयं हठाभिधः साधितः। (अर्थः) मार्कंडेय ने अष्टांग और उसके गोरक्ष आदि प्रमुखों के द्वारा बाद षडंग, पहिले यह हठ नाम का योग
सिद्ध किया गया है। [मूल] तस्याङ्गानि यमः सम्यक् नियमो ध्यानमासनम्।
धारणाप्राणसंरोधप्रत्याहारसमाधयः॥४००॥(४.१३५) (अन्वयः) तस्याङ्गानि सम्यक् यमः, नियमः, ध्यानम्, आसनम्, धारणा, प्राणसंरोधः, प्रत्याहारः, समाधिः। (अर्थः) उसके (योग) अंग सम्यक् यम, नियम, आसन, प्राणसंरोध, प्रत्याहार और ध्यान, धारणा, समाधि
ये हैं। [मूल लक्षणानि यमादीनामन्यशास्त्रप्रयोगतः।
विज्ञेयान्यत्र नोक्तानि ग्रन्थगौरवभीतितः॥४०१॥(४.१३६) (अन्वयः) अन्यशास्त्रप्रयोगतः यमादीनां लक्षणानि विज्ञेयानि, ग्रन्थगौरवभीतितः अत्र न उक्तानि। (अर्थः) अन्य शास्त्र के प्रयोग से यम आदि अंगों के लक्षण जानना चाहिए. ग्रंथविस्तार के भीति से यहाँ
नहीं कहे है।
१. अयं श्लोकः हस्तप्रतिषु न दृश्यते-को२०००८, को१५९३२, ओ २८७८ २. अयं श्लोकः हस्तप्रतिषु न दृश्यते-को२०००८, को१५९३२, ओ २८७८