________________
चतुर्थः प्रकीर्णकतरङ्गः
[मूल] चतुर्विधस्याऽप्यङ्गानि तत्तन्मतविभेदतः।
सम्भवन्ति यमादीनि वसुषड्भेदसङ्ख्यया॥४०२॥(४.१३७) (अन्वयः) चतुर्विधस्य अपि तत्तन्मतविभेदतः वसुषड्भेदसङ्ख्यया यमादीनि अङ्गानि सम्भवन्ति। (अर्थः) उसके उसके मत के भेद से, चार प्रकार के योग के भी यम आदि अडसठ अंग सम्भव है। [मूल] चतुर्विंशतितीर्थेशा जम्बूस्वाम्यादयश्च ये।
योगैः प्रक्षीणकर्माणः प्राप्नुयुर्मोक्षमक्षयम्॥४०३॥(४.१३८) (अन्वयः) ये जम्बूस्वाम्यादयः चतुर्विंशतितीर्थेशाः योगैः प्रक्षीणकर्माणः अक्षयं मोक्षं प्राप्नुयुः। (अर्थः) जो जम्बू स्वामी आदि चोविस तीर्थंकरों में योग के द्वारा कर्म को क्षीण करते हुए अक्षय ऐसे मोक्ष प्राप्त किया।
इति चतुर्विधो योगः। मल] ढिल्यामल्लावदीने नरपतितिलके रक्षति क्ष्मामधीशे,
सोनीश्रीसाङ्गणाख्यः समभवदितश्रीलसत्कीर्तिपूरः। तत्पुत्रः पद्मराजः प्रथितगुणगणस्तत्सुतः सूरसञ्ज्ञ
स्तत्सुनुर्धर्मनामा तदनु च वरसिङ्घोऽभवत् सत्यशीलः॥४०४॥(४.१३९) (स्रग्धरा) (अन्वयः) ढिल्यामल्लौ नरपतितिलके क्ष्मां रक्षति अधीशे अदीने उदितश्रीलसत्कीर्तिपूरः सोनीश्रीसाङ्गणाख्यः
समभवद् तत्पुत्रः प्रथितगुणगणः पद्मराजः तत्सुतः सूरसञस्तत् सुनुर्धर्मनामा तदनु च सत्यशीलः
वरसिङघो(सन्धः) अभवत। (अर्थः) दिल्ली में राजाओं में श्रेष्ठ अल्लाउद्दीन खीलजी राज्य करता था तब उदित लक्ष्मी के कारण
जिसकी कीर्ति फैली हुई है ऐसा सांगण सोनी नामक (श्रेष्ठी) हुआ। गुणों से प्रसिद्ध ऐसा उसका पुत्र पद्मराज हुआ, उसका पुत्र सूर हुआ, उसका पुत्र धर्मसेन हुआ और उसके बाद सत्यव्रती वरसिंह हुआ। नरदेवधनाख्यौ च तत्पुत्रौ द्वौ बभूवतुः।
ओसवालकुलोत्तंसौ दीनानाथकृपाकरौ॥४०५॥(४.१४०) (अन्वयः) ओसवालकुलोत्तंसौ दीनानाथकृपाकरौ तस्य नरदेवधनाख्यौ द्वौ पुत्रौ बभूवतुः। (अर्थः) उसके (वरसिंह के) ओसवालकुल की शिखा(आभूषण), दीनों का नाथ और कृपा करनेवाले ऐसे
उनके नरदेव और धन(देव) नाम के दो पुत्र हुए। [मल]
चन्द्रपुर्यां धनाख्येन वितीर्य विपुलं धनम्।
मोचिताः शकसङ्कष्टान्नराः शतसहस्रशः॥४०६॥(४.१४१) (अन्वयः) धनाख्येन चन्द्रपुर्यां विपुलं धनं वितीर्य शतसहस्त्रशः नराः शकसङ्कष्टान् मोचिताः।
मूल]