________________
PURCHASED FOR GOVERNMENT.
13 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति ॥ 'परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।' इति श्रीगीतोक्तनिमित्तलब्धक्षणतया यादस्सु महामीन इव मृगेषु यज्ञवराह इव विहंगमेषु श्रीहंस इव नृषु स्वयं भगवान् श्रीकृष्ण इव देवेन्द्र इव वेदेषु श्रीमद्भागवताख्यः शास्त्रचूडामणिः।
'कृष्ण स्वधामोपगते धर्मज्ञानादिभिः सह ।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥' इति वचनव्यञ्जितश्रीकृष्णप्रतिमूर्त्तिताकत्वेन ममाहमेवाभिरूपः कैवल्यादिति निरस्ततद्विनान्यसादृश्यतया श्रीशुकपरीक्षिद्भयां श्रीकृष्ण एव ज्यातिस्सु सहस्रांशुरिव पुराणेषु भास्वान् द्वादशस्कन्धात्मकोऽष्टादशसहस्रच्छदनो महाजनवांछितार्थकल्पतरु रिवावततार, तत्प्रणेता प्रथमत एवाचार्यचूदामणिः श्रीकृष्णद्वैपायनः स्वाभीष्ठदैवतध्यानलक्षणं मङलमाचरति ।। जन्माद्यस्येति ॥ Ends: किंच-सर्पविषहरा मन्त्रा यथा लोके अर्थतानमाप नापेक्षन्ते, तथैवार्थ जानातु न जानातु वा श्रीभागवतीयाः शब्दा एव संसारविषं निर्मूलयन्ति, इत्याचार्याभिप्रायो द्रष्टव्यः ॥ १६॥
नमोस्तु गुरवे तस्मै श्रीकृष्णाय नमो नमः । कृपार्णवाय श्रीलोकनाथाय प्रभवे नमः ॥१॥ कृष्ण चैतन्य गौराङ्ग साङ्गोपाङ सपार्षद । निरुपाधिकृपासिन्धो प्रेम्णा मां परिपूरय ॥ २॥ जय वृन्दावनक्रीडारसिक द्वय मां नय । स्वप्रियालिङ्गनं गीत नवैतत्करुणं भव ॥ ३॥ अत्यज्ञोपि त्वयैवाहं स्वव्याख्यायां प्रवर्तितः । हे कृष्ण श्रीभागवत प्रसीद त्वं तदेतया ॥ ४ ॥