SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 12 EXTRACTS FROM MANUSCRIPTS No. 150. Bhagavatam, with a Commentary by VISHVANATHA [श्रीमद्भागवतं सटीकम्-टीकानाम सारार्थदर्शनी-विश्वनाथः]. Commentary begins : कृपासुधावृष्टिभूतस्वभक्तिस्वर्वाहिनीखेलितजीवपद्मी । श्रीकृष्णचैतन्यघनः स विद्युद्गौरो मनोव्योमनि नश्चकास्तु ॥ १ ॥ नित्यानन्दाद्वैतचैतन्यमेकं तत्त्वं नित्यालंकृतब्रह्मसूत्रम् । नित्यैर्भक्तैर्नित्यया भक्तिदेव्या भातं नित्ये धाम्नि नित्यं भजामः॥२॥ रूपं नाम सनातनं गुरुकृपान् नित्यान् गुणांस्तस्य तान् श्रीमद्भागवतात्तथैव विदितान् जुष्टाच्चिरेणाश्रयन् । दृष्ट्वा वैष्णवतोषिणी प्रभुमतं विज्ञाय संदर्भतष्टीका स्वाम्यनुकम्पितोऽस्य विदधे सारार्थसंदर्शिनीम् ॥३॥ न काचिन्मे वैदुष्यहहसुमहासाहस इह स्वमौढ्यं वा हेतुनिरुपधिकृपाया भगवतः । प्रभुत्वं वा हीनेऽप्युदयति यदाद्ये प्रहसितं द्वितीये त्वानन्दं प्रतिपदमिदं धोक्ष्यात सताम् ॥ ४ ॥ गोपरामाजनप्राणप्रेयसेऽतिप्रभूष्णवे ।। तदीयप्रियदास्याय मां मदीयमहं ददे ॥६॥ सुरतरुफलदीपाहस्करब्रह्मधर्मान् यदिदमधितशास्त्रं नातिचित्रं तदेतत् । हरिचरितसुधानां पायनाय प्रपेदे सदसि सदसतां यन्मोहिनीत्वं स्तुमस्तत् ॥६॥ इह खलु निखिलकल्याणगुणमाधुर्यवारिधी महैश्वर्यसंम्राजि स्वयं भगवति परमभास्वत्यधिधरणि यथासमयं विलस्यान्तहिते नानाशास्त्रपुराणोतिहासादीनां सर्वजननिकायनायकत्वरूपेष्वर्थेषु यामिकेष्वित्र कालेन देवाद्वैगुण्योदयादाकस्पेनेव केषुचित्प्रसुप्तेषु तेष्वेव मध्ये कैश्चित्कैश्चित् प्रत्युत "जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महाव्यतिक्रमः । इत्यादितोऽवगतैरर्थाकारैश्चौरौरवोद्य तत्तत्प्रणेतृपर्यन्तानां सर्वेषां चित्तप्रसादरूपेषु महाधनेष्वपहृतेषु ।
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy