________________
PURCHASED FOR GOVERNMENT. 11 इत्यपौनरूक्तिरिति भावः । अपूर्वस्येत्यत्र विभागाऽसंभावादिति शेषः । रघुनाथवाजपयिकृता मिताक्षराव्यवहारव्याख्या ॥
No. 123. Sraddhakalpam, by HEMADRI [श्राद्धकल्पम्-हेमाद्रिः]. Begins : श्रीभट्टरामेश्वरेभ्यो नमः । यत्पादपकरुहपांसुपूते दत्तैर्गयामूर्धान सक्तपिण्डैः । मुक्तिं महापातकिनो लभन्ते गदाधरं तं शरणं प्रपद्ये ॥ १ ॥ प्रणेता शास्त्राणां सपदि सुहृदाता गुणवतां । मनीषी हेमाद्रिर्जयति जगतीभूषणमणिः ॥ २॥ ऋणत्रयापाकरणातिरिक्तैर्मुदां निदानैरपि यस्य दानैः । देवादयः प्रत्युत धारयान्त चिन्तामनन्तामधमर्णतायाः ॥ ३ ॥ सृजतः सततं दिगङनानां श्रवणाभोगविभूषणं यशः । चरितं कथमस्य कथ्यते जगतीजङमकल्पशाखिनः ॥ ४ ॥ निश्चित्य पिन्याण्यखिलस्मृतिभ्यः कृत्यानि कात्यायनसंस्मृतानि । निबध्यते श्राद्धविधिः क्रमेण हेमाद्रिणा श्रीकरणाधिपेन ॥ ६ ॥ यश्चकारचतुर्वर्गचिन्तामणिमनन्यधीः । हेमाद्रिसूरिणा तेन क्रियते श्राद्धपद्धतिः ॥ ६ ॥
स्मर्यते हि कात्यायनादिभिः श्राद्धं कुर्वीतेति ॥ Ends :
कुर्वन्नहरहः श्राद्धं वित्तशाठ्यविवर्जितम् । पितृणां परया भक्तया गतिमिष्टां प्रपद्यते ॥ इति नित्यश्राद्धविधिः ।।
श्रुतिस्मृतिपुराणेभ्यो मया हेमाद्रिणोद्धृतम् ।
श्राद्धकल्पमिदं सम्यक् पितृणां तुष्टिकारकम् ॥ इति पण्डितश्रीहेमाद्रिविरचितं श्राद्धकल्पं संपूर्णम् ॥ शुभमस्तु ।