________________
10
EXTRACTS FROM MANUSCRIPTS
No. 88. Nirnayabhaskara [निर्णयभास्करः]. Begins : श्रीभवानीशंकराभ्यां नमः ।
नमश्चण्डशिरश्चन्द्रचारुचन्दनभूषिणे। यत्प्रभावाल्लिखाम्येनं ग्रन्थं निर्णयभास्करम् ॥ नमामि लम्बोदरविघ्नराजं समस्तदेवैरभिवन्द्यमानम् । बुद्धिप्रदं लोकहिताय सद्यः करोम्यहं निर्णयभास्कराख्यम् ॥ यथायं भास्करो भाति सप्तद्वीपेषु दीप्तितः । तथैव लोकमध्यस्थो भाति निर्णयभास्करः॥ अथैकभक्ततिथिनिर्णयः । Ends: अन्यच्च ।
सुरद्रुकुष्टागरुगुग्गुलं च कर्पूरमांसी सह चन्दनं च । सशर्करानीरदयुङ्गखं च दशाङ्गधूपं प्रवदन्ति सन्तः ॥ इति सूतकान्तमध्ये । इति श्रीनिर्णयभास्करः समाप्तः । शुभमस्तु । संवत् १७२५ माघशुदि पौर्णमास्यां शुक्रदिने गण्डक्यामुपकण्ठे पुस्तकमलेखि हीरारामेणात्मपठनार्थम् । शुभमस्तु लेखकपाठकयोः ॥ सिद्धिरस्तु ।
No. 103. Mitaksharavyakhya, by RAGHUNATHA: the Vyavaharadhyaya. [मिताक्षराव्याख्या व्यवहाराध्यायः-रघुनाथवाजपेयी]. Begins :
श्रीगणेशाय नमः। अथ कीदृशः कतिविध इति द्वयोः स्वरूपसंख्याप्रश्नयोर्व्यवहारानितिपदेनैवोत्तरमत्याह व्यवहारानिति । व्यवहारो विवाद इत्यर्थः । Ends:
आप्तेति । यः पूर्वं व्यवहारे जितः स यदि विचार्यमाणो दोषी तदा दुष्टत्वेन जयात् दण्ड्य इति जेतृदण्डो विधीयतेऽनेन इतरांशे स्वनुवाद