SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ PURCHASED FOR GOVERNMENT. तुष्टयै श्रीजयसिंहवर्मनृपतेः कल्पद्रुमे गच्छकमष्टादशवारादिव्रतविस्तरं समकरोदेकोनविंशपरम् ॥ २॥ यश्चक्रेऽवन्तिपुर्यां द्विजवरसहितः सन्मखं सोत्सवाचं ज्योतिष्टोमं ततो वै जयनृपतियुतेऽम्बापुरे वाजपेयम् । श्रेष्ठं सर्वक्रतुभ्यो विविधविधियुतं पौण्डरीकं च यज्ञ षट्त्रिंशद्घस्रसाध्यं द्विजवरमाहतं द्वादशाहक्रतुं च ॥ ३ ॥ सर्वतो मुखमखं क्रतूत्तमं सविधाय युगवेदिकायुतम् । दिवभट्टजनुषाग्रजन्मना कल्पवृक्षरचनात्वियं कृता ॥ ४ ॥ शाके विक्रमपार्थिवस्य शुभदे व्योमर्षिसप्तेन्दुयुग्वर्षे शोभनसंज्ञके शिवतिथी मासे नभस्याख्यके। कूर्मश्रीजयसिंहदेवनगरे पुण्येऽबिकेशाञ्चिते ग्रन्थः कल्पतरुसमाप्तिमगमत्सज्ज्ञानवित्तप्रदः ॥ ६ ॥ रत्नाकरण जयसिंहसमर्चितेन सद्वाक्यरत्ननिवहैः परिसंगृहीतः । ग्रन्थोऽर्थदः सफलकल्पमहीरुहाख्यः श्रीजनकीशपदपद्मयुगेऽपितोऽयम् ॥ ६ ॥ ग्रन्थान बहून् सुविततान् सुचिरं विभाव्य कष्टेन यः कविवरैरधिगम्यतेऽर्थः । निर्मत्सरं बुधवराः परितो विचार्य ग्रन्थादुरीकुरुत तं हि विना प्रयासम् ॥ ७॥ दिवि पञ्च कल्पतरवः परं श्रुता जयसिंहवर्मनृपतेः समा न ते। कथमन्यथा सुरगणोऽम्बिकापुरेऽवनितुं सदाधरमिषात्समाययौ ॥८॥ इति श्रीदेवभट्टात्मजपौण्डरीकयाजिरत्नाकरविरचिते श्रीकल्पद्रुमोद्योते एकोनविंशः स्तबकः ॥ २९॥ इति श्री समाप्तोऽयं श्रीजयसिंहकल्पद्रुमग्रन्थः ॥ मीति० जेठशुक्लपक्षे तिथौ ६ रविवारः संवत् १८५९॥ B417-2
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy