SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ EXTRACTS FROM MANUSCRIPTS संलब्धैर्धनसंचयैर्बहुविधैः सर्वान् ऋतूनाचरन् तत्प्रीत्यै व्रतकल्पशाखिनममुं निर्माति रत्नाकरः ॥ ३४ ॥ हेमाद्यादीन् समालोक्य ग्रन्थान् प्राज्यार्थसंयुतान् । तेभ्य एव समादाय पुराणेभ्यस्तथैवच ॥ ३५ ॥ किञ्चित् किञ्चिद् व्रतवाते तत्सिद्धयै समयेऽपि च । संदर्भो रचितो रामतुष्टयै च भवतादयम् ॥ ३६ ॥ क्षम्यतां साहसं धीरैर्गुणवद्भिरमत्सरैः ।। यदर्थ्यं सुष्टु तद् ग्राह्यं यदसम्छोध्यतामिह ॥ ३७ ॥ बहवो हि बुधाः सन्ति तन्निबन्धाः सहस्रशः। तथाप्यस्य तु वैदग्ध्यं सुहृद्भिः संविचार्यताम् ।। ३८ ॥ वक्ष्यमाणवतेषु कालस्य निमित्तत्वादादौ कालस्वरूपं तन्निर्णयश्चोच्यते । तत्र कालस्वरूपं तावत् हेमाद्रौ कूर्मपुराणे ॥ श्रीमदिल्लीशसेनोद्भटविकटभटप्राज्पमत्तेभसिंहश्चण्डोन्माद्यत्तुरष्काभितवसुमतीपालने धर्मराजः । पौत्रः श्रीकृष्णसिंहक्षितिपकुलमणेविष्णुसिंहस्य पुत्रः श्रीमान् राजाधिराजो जयहरिरमराधीशवत् को सुखी सात् ॥ श्रीमत्पण्डितदेवशर्मतनयः श्रीराघवांघ्रिद्वयध्यानावाप्तसमस्तकामनिवहः सम्राटू स रत्नाकरः । तुष्टयै श्रीजयसिंहवर्मनृपतेः कल्पद्रुमे कामदं प्रत्यग्रं स्तबकं द्वितीयमकरोत्सदातनिर्णायकम् ॥ इति श्रीदेवभट्टात्मजवाजपेय याजिरत्नाकरविरचिते जयसिंहकल्पद्रुमे परिभाषाप्रकरणम् । Ends: कार्यारंभे तथा राजन् यथेष्टं नाम कीर्तयेत् । जगतो मङलं विष्णुं माङ्गल्येषु च कीर्तयेत् ॥ १॥ श्रीमत्पण्डितदेवभट्टतनयः श्रीराघवांघ्रिद्वयध्यानावाप्तसमस्तकामनिवहः सम्राट् स रत्नाकरः ।
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy