________________
7
PURCHASED FOR GOVERNMENT.
अर्द्धोदये सकलयोगवरे सुतीर्थे सिप्रातटे हयगजादिकमप्रमेयम् । दत्तं सुभूरि गदितं नहि शक्यमन्यैग्रमाः शतं च शिबिकाः सुरथा द्विजेभ्यः ॥ २७ ॥ वेदज्ञैर्विधिबद्विजैः स्त्रनगरे सर्वान् क्रतून् कारयन् स्वर्णैर्यो बहुलाश्वकार सुतलास्ताभिर्द्विजांस्तोषयन् । दुर्भिक्षैः परिपीडितान् बहुजनान् पुष्णन् रमाधीशवत् कौर्मः श्रीजयसिंहराजतिलको जीव्यात्सहस्रं समाः ॥ २८ ॥ यस्मिन् राजनि दातरि प्रतिदिनं व्योमस्पृशः सध्वजाः प्रासादा ह्यभवन् गृहेषु गृहिणामुच्चैरिति श्रूयते । देयं यावनकाय भूरि स पुनः कुत्रापि नो दृश्यते दारिद्र्यस्य लिपिर्विहायितजलैर्मृष्टेति मन्यामहे ॥ २९॥ कश्चिद्विजः कांश्चन वाडवाग्र्यान् पप्रच्छ संपन्नतरान् सुविद्वान् । दानं किमर्थं परिपूर्णकामा गृह्णीत यूयं बहुलं तदूचुः ॥ ३० ॥ अस्माकं निःस्पृह णां श्रुतिशतगदितो ह्येष धर्मः पुराणः सर्वेषां यद्धितं स्याद्भुवि दिवि च यथा तत्तथा कार्यमेव । एवं संचित्य सर्वैर्द्विजवरनिकरैर्गृह्यते दानमेभ्यो येन स्याडूामलोके त्रिदशनिवसतावप्यनन्तसुखो यः ॥ ३१॥ प्रोद्यच्छ्रीमदसीमराज्यविमलसद्दिल्लीन्द्रसेन चलदष्ययोधगणे हुसेनसहितान् म्लेच्छान् क्षयं यो नयन् । स्वं राज्यं परिगृह्य खड्मसचिवो राजा गृहे संवसन् सामन्तेष्वतपत्सहस्रकिरणो ग्रैष्मो यथा दुःसहः ॥ ३२ ॥ तेन श्रीजयसिंहेन सर्वशास्त्रार्थसंविदा | संप्रार्थितस्तिथेः कृत्यं कुरुतेऽति सुसंग्रहम् ॥ ३३ ॥ रामाङ्घ्रिप्रवणः सुकर्मनिरतः शाण्डिल्यगोत्रोद्भवः काशीस्थद्विजदेवभट्टतनयः सम्राट् सुविद्यान्वितः ।