SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 6 EXTRACTS FROM MANUSCRIPTS मेर्वादिशैलसहितां कनकस्य भूि रम्यां विधाय महतीं वरसोमवत्याम् । गोग्रामरत्नगजवाजिसमन्वितां यस्तीर्थे कुरुक्षयकरे व्यतरद्विजेभ्यः ॥ १७ ॥ तीर्थे श्रीपुष्कराख्ये सुरमुनिमहितेऽनेकदन्तावलानां ग्रामाणामर्वतां च प्रतिदिनमधिकं भूरिभूषायुतानाम् । . संशुध्यै हाटकं यः स्वतनुपरिमितं तोलयित्वा च तस्योत्सर्ग चक्रे यदन्यत्तदपि गणयितुं मानवः शक्नुयात् कः ॥ १८ ॥ श्रीमद्गङ्गातरङ्गैर्दुहिणमुखसुरैः सेविते पुष्यदेशे मायापुर्यां च गत्वा गजरथतुरगं येन भूरि प्रदत्तम् । ग्रामैर्वर्षाशनाद्यैरनुदिनमधिकं पूरयन्नर्थिवाञ्छाः स्वर्णैस्तद्वेदविद्भयो व्यतरदभिमतं तोलयित्वा स्ववर्ष्म ॥ १९ ॥ विशालान्तर्गते पुण्ये तीर्थे पैशाचमोचने । पुरस्य तुलां कृत्वा वेदविद्भयो ददौ नृपः ॥ २० ॥ हिरण्यगर्भ कनकस्य सुन्दरं ब्रह्मादिभिर्वेदवरैरधिष्ठितम् । ब्रह्माण्डसंज्ञं च सुमेरुतुल्यं ददौ विधानाद्वखाडवेभ्यः ॥ २१ ॥ कल्पपादपमथेष्टदं वरं गोसहस्रमतिकामदं तथा । शातकौंभरचितां सवत्सिकां कामधेनुमतुलां समर्पयत् ॥ २२ ॥ हिरण्याश्वं हिरण्याश्वरथमप्रतिमं तथा । हेमहस्तिरथं दिव्यं गजद्वययुतं ददौ ॥ २३ ॥ पञ्चलाङ्गुलकं हेमं ग्रामरत्नादिभिर्युतम् । धरां स्वर्णस्य महतीं द्वीपमेर्वादिसंयुताम् ॥ २४ ॥ विश्वचक्रं कल्पलताः सत्यसागरकं तथा । रत्नधेनुं स्वर्णयुतां महाभूतघटं तथा ॥ २९ ॥ स्वर्णरत्नौघरचितं क्षिप्रापिङलसंगमे । योगे चार्द्धादये पुण्ये व्यतरद्विजवृन्दके ॥ २६॥
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy