________________
PURCHASED FOR GOVERNMENT.
तद्वंशे वितते महाभटनुते धर्मैकसेतुर्महान् पृथ्वीराज इति प्रसिद्धमहिमा सत्सात्वतामग्रणीः । राजा क्षत्रधुरन्धरः समभवद्यस्याभवद्गोचरो वाचां यो मनसोऽप्यगोचरतरो विष्णुः कृपावारिधिः ॥ ८ ॥ तद्वंशे मानसिंहः समभवदतुलः प्रत्यहं दानमत्ता नीषादन्तान्गजेन्द्रानभिनवतुरगान् याचकेभ्योददाद्यः । . यश्चोर्वीशाननेकानुदधिजलगतान् खण्डशः स्वर्बलाद्यैः कृत्वा साम्राज्यलक्ष्मी समवह दभितो भारतं मत्स्यदेशे ॥ ९॥ मानसिंहादभूत्तस्माज्जगत्सिंहो महाबलः । जगत्सिंहान्महासिंहो जयसिंहस्तु तत्सुतः ॥ १०॥ येन श्रीजयसिंहन दिलीन्द्रपदलिप्सवः । शिवप्रभृतिभूपाला वशं नीताः स्वतेजसा ॥ ११ ॥ तस्याग्र्यपुत्रः प्रबलः पृथुश्रीः श्रीरामसिंहोऽवनिपालपालः । कौर्मे कुलेऽभूद्विजितारिवर्गः श्रीरामपादाब्जविलमचित्तः ॥ १२ ॥ यः कृत्वा ब्रह्मपुत्राभिधनदपुलिने स्वर्णभूमि विशाला मुक्तामाणिक्यरम्यां गिरिजलधियुतां चाददाद्वाडवेभ्यः । दारिद्र्यं याचकानां कथमपि न गतं यत्पुरा कर्णदानात् तरिक्षप्तं भूरिभूमिद्रविणवितरणैरर्थ्यतो नास्ति लोके ॥ १३ ॥ तत्पुत्रः कृष्णसिंहः प्रथितगुणगणः पालकः सज्जनानाम् । गजा राजीवनेत्रः समजनि मधुरापालिता येन पूर्वम् ॥ १४ ॥ तस्माच्छ्रीविष्णुसिंहाख्याद्राजा राजीवलोचनः । जातः श्रीजयसिंहोऽसौ क्षीराब्धेरिव चन्द्रमाः ॥ १५ ॥ वागीशः सुरपादपः सुरपतिश्चिन्तामणिश्चन्द्रमाः कन्दर्पः कनकाचलो दिनमणिः पार्थः शिबिर्विक्रमः । बुद्वा श्रीजयसिंहभूपतिगुणैर्व्यर्थीकृतान् स्वान् गुणान् हित्वा गर्वममुं च लोकमथ ते स्वर्ग गता लज्जिताः ॥ १६ ॥