SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 4 EXTRACTS FROM MANUSCRIPTS इति अचिरादिमार्गवैभवं संपूर्ण समाप्तम् ॥ श्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ ॥ No. 73. Jayasinhakalpadruma by RATNAKARA [ जयसिंहकल्पद्रुमः - रत्नाकरः ]. Begins: श्रीगणेशाय नमः ॥ श्रीवरदमूर्तिर्जयति ॥ करीन्द्राननं चारुचन्द्रावतंसं स्रवद्गण्डपालीमिलढङ्गमालम् । अपर्णासुतं विघ्नपूगं हरन्तं गणेशं सुरेशं तमाद्यं प्रपद्ये ॥ १ ॥ श्रीजानकीशं शरणागतैकदुःखापहं श्री गिरिजाधवं च । स्मृत्वाथ पूज्य पितरौ गुरूंश्च श्री भ्रातरौ सूर्यसमौ नमामि ॥ २ ॥ आसीद् ब्रह्माद्वितीयं त्रिगुणविरहितं निष्कलं निर्विकारं यच्चिन्मात्रं तदेव प्रलयजलनिवौ विष्णुरूपं बभूव । जातस्तन्नाभिपद्माद्विधिरमितमतिस्तत्प्रपौत्रो विवस्त्रांस्तस्माद्वैवस्त्रतोऽभून्मनुरखिलगुणस्तज्ज इक्ष्वाकुभूपः ॥ ३ ॥ इक्ष्वाकोस्तु कुले गिरीशसदृशो राजा ककुस्थो ह्यभूत् तद्गोत्रात्ततनुर्दृढः समजाने श्रीधुन्धुमारो नृपः । मान्धाता तु तदन्वये समभवत्तस्यान्वयेऽभून्महान् राजा धर्मविवृद्धये किल हरिश्चन्द्रः सुरेन्द्रोपमः ॥ ४ ॥ पूते हरिश्चन्द्रकुले विशिष्टे गरेण युक्तः सगरो हि जातः । भगीरथस्तत्कुलजः प्रसिद्धः श्रीजन्हवी येन महीमनायि ॥ ५ ॥ खट्वाङ्गः समजनि तत्कुलेऽभिधन्ये तद्वंश्यो रघुरिति नामतः प्रसिद्धः । यो विभुरवितुं महीं च धर्मं श्रीरामः क्षपितनिशाचरो बभूव ॥ ६ ॥ तत्पुत्रः कुश इति विश्रुतः पृथिव्यां तद्वंशे विपुलयशा बृहद्बलोऽभूत् । युद्धे यः कुरुकुलनाशके प्रसिद्धे भित्वा परमपदं जगाम सद्यः ॥ ७॥
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy