________________
14
EXTRACTS FROM MANUSCRIPTS
मद्रवीरपि गोपाल स्वीकृत्य परिपालय । पिबन्नासां पयः प्रीत्या स्वभक्तानपि पायय ॥ ५ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । त्रयोदशो द्वादशस्य संगतः संगतः सताम् ॥ ६ ॥ ऋत्वक्षिषड्भूमिमिते १६२६ शाके राधाकृष्णसरस्तटे । शुक्लषष्ठ्यां सिते माघे टीकेयं पूर्णतामगात् ॥ ७ ॥ टीकेयं वैश्वनाथी भवतु भगवतो भक्तलोकस्य रस्या षट्शास्त्रागम्यधाम्नो मधुरिमलहरी खेलने कान्तवृत्तेः । यत्तस्या रोचकत्वे कृतिरतिकृतिनः सर्वसाद्गुण्यगण्या दीव्यत्पाण्डित्य नृत्याप्यनुपदविधुरा स्याज्जनी दुर्भगेव ॥ ८ ॥ आरम्भे परिणामे च विवर्त्तेऽपि न हि क्षतिः । श्रीमद्भागवते भक्तेः पुरुषार्थशिरोमणेः ॥ ९॥
व्याख्याऽस्य भक्त्या गम्या सा श्रीगुरोः कृपयेक्ष्यते । तस्मान्नमो नमस्तस्मै गुरवे गुरवे नमः ॥ १० ॥
हे भक्ता द्वारि वश्चञ्चद्वालधी रौत्ययं जनः । नाथान् विशिष्टः श्वेवातः ? प्रसादं लभतां मनाकू ॥ ११ ॥ श्रीगोवर्द्धनाय पर्वतराजाय हरिदासवर्याय नमो नमः । श्रीराधाकृष्णसरसीभ्यां नमः ॥
No. 185. Tattvachintamanau Anumanakhanda,_with_a Commentary by MATHURANATHA [ तत्त्वचिन्तामणौ-अनुमानखण्डटिप्पणीमथुरानाथः ] .
Begins:
श्रीगणेशाय नमः ।
न्यायाम्बुधिकृतं सेतुं हेतुं श्रीराममखिलसंपत्तेः । ततं त्रिभुवनगीतं तर्कालंकारमादरान्नत्वा ॥