________________
211
PURCHASED FOR GOVERNMENT,
अष्टादशाब्दसमयावधि यश्चकार नानातपःकरणतो विमली [विमलेन्द्र] सेवाम् ॥ २३ ।। नव्यस्तवेन नवचैत्यनति सदा यश्चक्रे जिनप्रभविभुः स महांस्तृतीयः । जज्ञेऽथ मुक्तमदचैत्यनिवासविद्यानन्दाह्वसरिरतिधर्ममतिः प्रबुद्धः ॥ २४ ॥ तुर्योऽथ शीतलविहारनिवारणर्यः [णैर्यः] . संवेगवारिधिरभूद्गुणसेन सूरिः । चत्वार एव चतुरा अभवन्गणेऽस्मिन् सूरीश्वरा गुणगणप्रथितास्तदैव ।। २५ ॥ अष्टादशोरुशतमानमुनीश्वराणां वैरङ्गिकः परिकरः प्रवरस्तदासीत् । सूरिभ्य एभ्य उरुसंयमिसाधुसारं शाखाचतुष्टयमथ क्रमशो बभूव ॥ २६ ॥
॥ अथार्याः ॥ श्रीदेवप्रभसूरेः पदे भूच्छ्रीजिनप्रभयतीन्द्रः। तत्पट्टे पुनरजनि श्रीमान्गुणसेनसूरीशः ॥ २७ ॥ प्रतिषेधे क्रियमाणे स्वाचरणादृष्टिरागिगीताथैः । सूत्रोदितकतिवार्षिकपर्वादिकालमार्गाणाम् ।। २८ ।। कर्णावत्यां भूपतिसाक्षिकमस्थापि येन सुविधिः । श्रीगुणसेनगुरुपदे श्रीकीर्तिसमुद्रसूरिरिह सोऽभूत् ॥ २९ ।।
॥ गीतिः ॥ युग्मम् ॥