________________
212
EXTRACTS FROM MANUSCRIFTS
तत्पट्टाम्बुजतरणिः शिवसुखसरणिरनेकभव्यानाम् । विद्योदाधिः शमनिधिः श्रीहेमसमुद्रगुरुरासीत् ॥ ३० ॥ श्रीहेमचन्द्रसूरिवीजापुरवासिपेथडमहिभ्यः । यदेशनाप्रबुद्धोऽकारयदुरुचैत्यसुचतुष्कम् ॥ ३१ ॥ सप्तसहजसुकृताप्त्यै साकं तैः सप्तविमलगिरियात्राः । स चकार च दुःसमये सत्रागारे घनान्नमदात् ॥ ३२ ॥ स्वसमयसकलश्रबणे वीराईदागौतमाभिधार्चातः । तै रूप्यटककैः स च चक्रे चित्कोशसुत्रितयम् ॥ ३३ ॥ सोऽबुंदशैले गर्भालयं सबिम्बं व्यधापयच्चैत्यम् । सञ्चित्तादननियमीत्यादिबहुसुकृतततिमकरोत् ॥ ३४ ॥
॥ गीतिः ॥ ॥ अथ वृत्तानि । तदनु मनुशताब्दे सरिरत्नं गणेऽभूत् सुगुरुजयसमुद्रः सर्वस्त्रेष्वधीती। मुनि ७ शतलिपिपाठादेकघस्रे सृजंस्तत् समयकविनिबद्धग्रन्थशुद्धिं व्यधाद्यः ॥ ३५ ॥ वर्षे षट्शरवेदशीतगुमिते देवालय- - - - . . . - - साधुसंघपतिना सार्द्ध महार्द्विप्रथः । आसोको व्यवहृच्चकार महती यात्रां यदङ्किद्वयीसंसेवी चतुरस्तथैव चतुरः सूरीन्मुदाऽस्थापयत् ॥ ३६ ॥ रसकरमनुवर्षे लब्धपादोदय श्रीः कमलतिलकसरिस्तत्पदे ऽभून्महाश्रीः । तप ( उप ) शमरूपं ज्योतिराबिभ्रतोद्यत्तपनहिमरुची तो निर्जितो येन सद्यः ॥ ३७ ॥