________________
210
EXTRACTS FROM MANUSCRIPTS
श्रीकुमुदचन्द्रसूरिभव्यकुमुदबोधकरणचन्द्रसमः । षड्विकृतिपरित्यागी दत्तिचतुष्काशनग्राही ॥ १४ ॥ आशाम्बरैः साकमथोज्जयन्ते तीर्था(थ)वादेम्बिकया प्रदत्ते । साहाय्यके जैनसुरामरीणां वात्सल्यकृत्वा जिनशासनस्य ॥ १६॥ तुर्यस्तुतेराचरणा च चक्रे श्रीबप्पभट्टिप्रमुखैमुनीन्द्रैः। मेने न येनागमयुक्तिरागात्ततोऽजनि त्रिस्तुतिकप्रसिद्धिः ॥ १६ ॥ चतुर्थवर्षे विधिपक्षकर्तेत्येतस्य दत्तं बिरुदं सुजातात् । गुणानुरागात्पुन (रेव) राज्ञा श्रीज्ञानचन्द्रः स च सरिवर्यः ॥ १७ ॥ तदीयपट्टे गुणचन्द्रसूरियेन प्रबोध्यावनिपं हि भीमम् । पापद्धिमांसाशनरात्रिभोज्यपरराङ्गनानां नियमाः प्रदत्ताः ॥ १८ ॥ तत्पदृगः श्रीगुरुशीलधर्मः क्रमेण शीलप्रभशीलरत्नौ । सूरी ततः श्रीगुरु शीलचन्द्रः श्रीवीरचन्द्रो गुरुशीलसुन्दरः ॥ १९॥ श्रीधर्मरत्नो गुरु रेवसरिः श्रीधर्मसिंहो गुरुसिद्धसिंहः । कुमारसेनो नृपजः सगर्भणहाउथ भीतो हि ततः प्रबुदः ॥ २० ॥ स चाभवच्छीलगणाह्रसूरिः(सूरिः) पदेऽस्याजनि देवभद्रः । यस्योचिबानागमिकाह्वयं श्रीकुमारपाल: स्वगुरोः समक्षम् ॥ २१ ॥ श्रीमान् जिनप्रभ इति द्वितीयोऽस्य सूरिवैरङ्गिको जान यकोउनशनं चिकीर्षुः । भावी प्रभावक इति त्रिविधं न्यषेधि सूर्याऽतिभक्तिपरया जिनशानस्य ॥ २२ ॥ षण्मासतीर्थनतिविघ्नकरी प्रबोध्य व्यात्रीं तपोऽतिशयतः सुगति तु नीत्वा ।