________________
209
PURCHASED FOR GOVERNMENT. तच्छिष्याश्चत्वारश्चन्द्रो नागेन्द्रनिर्वृती अपरौ । विद्याधरस्वमीभ्यो गच्छचतुष्कं प्रवृत्तमिह ॥ ३॥ नाइलपरनाम्नः श्रीचन्द्रगुरोविजयसेनसरिरभूत् । सातिशयोऽशिवशामनकृतान्यसामन्तभद्राख्यः ॥ ४ ॥ तत्पट्टे श्रीविजयप्रभसूरिरभूच्च सरिजयचन्द्रः । श्रीदेवचन्द्रसूरिः श्रीधर्मसमुद्रसूरिरितः ॥ ५ ॥ दुःषमसमयातिशयात् प्रायस्तनुमानसौजसोहोन्या । षष्ठाशक्तेः कैश्चिच्चतुर्दशी पाक्षिकमकारि ॥ ६ ॥ पञ्चत्रिंशदधिकशतं सूरियुजा येन नो परं मुमुचे । राकापाक्षिकमर्हत्प्रणीततिथ्या अधिकरागात् ॥ ७ ॥ मूलविधेरत्यागात्प्रीतैर्विबुधैर्धनैर्जनैर्यस्य । सुविहितबिरुदमदायि श्रीधर्मसमुद्रसरिरसौ ॥८॥ कुशलप्रभसूरिरथो श्रीरत्नप्रभगुरुजिनेन्द्राभः । सूरिश्चारित्रप्रभगुरुरुदयप्रभगुरु: श्रीमान् ॥९॥ श्रीशालवाहननृपोपरोधतोऽकारि कालिकाचार्यैः । पर्युषणा च चतुर्थ्यां यदैव समये पुनस्तस्मिन् ॥ १० ॥ अजनि श्रीदेवचन्द्रप्रभसूरिः पर्व वार्षिकं येन । नाचीर्ण च चतु. जयद्रथोत्तरपुरस्थेन ॥ ११ ॥ सरिः कुमारधर्मो जिनदेवगुरुर्यशोदेवः । श्रीविजयचन्द्रसूरिः सूरक्ष्मापप्रबोधकरः ॥ १२ ॥ श्रीविमलप्रभसरिः पुण्यप्रभसरिरथ च (ज) यघोषः । सूरिस्तु विजयघोषः सूरिश्रीविजयधर्मगुरुः ॥ १३ ॥
B669-27