________________
PURCHASED FOR GOVERNMENT,
205
आद्यनामक्रमणैव प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाख्या बभूवुर्वरमूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽतिराजलक्ष्मीलीलानिवासान् विमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझंकाररम्यो येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः ।। १३ ।। तेषां विनेयविनयी बहु भावदेवसरिः प्रसन्नजिनदेवगुरुप्रमोदात् । श्रीपत्तनाख्यनगरे रबिविश्ववर्षे पार्श्वप्रभोश्चरितरत्नमिदं ततान ।। १४ ॥ समीक्ष्य बहुशास्त्राणि श्रुत्वा श्रुतधराननात् । ग्रन्थोऽयं ग्रन्थितः स्वल्पसूत्रेणापि मया रसात् ।। १५ ।। क्वापि दृष्टान्तमात्रस्तु यः कोपि कथितो मया । स्वस्तये सोऽपि जैनाज्ञानुसारेण गुणेच्छुना ॥ १६ ।। चरितं कल्पितं चापि द्वेधोदाहरणं मतम् । परस्मिन्साधनीयार्थस्यौदनस्य यथेन्धनम् ॥ १७ ॥ अनादिनिधने काले जीवानां चित्रकर्मणाम् । संविधानं हि तन्नास्ति संसारे यन्न संभवेत् ।। १८ ॥ अस्मिन् ग्रन्थेऽथ यन्यूनमधिकं वा कृतं मया । तदप्यनेनाधारेण तत् क्षन्तव्यं ममाखिलम् ।। १९ ।। श्रीपार्श्वचरितं तैस्तैर्वणितं यन्महात्मभिः । इत्थं मयापि यत्तत्तोपक्रान्तं धाष्टर्यमेव तत् ॥ २०॥