SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 206 EXTRACTS FROM MANUSCRIPTS. किंच || उत्तुङ्गचङ्गचत्यानि महेभ्यैः कारितानि चेत् । तद्देवकुलिकामलधनो न विदधाति किम् ।। २१ ।। पूजिता यदि देवेन्द्रजिना मन्दारदामभिः | पूजयन्ति न किं तत्तान्मर्त्य म - चकादिभिः ॥ २२ ॥ अध्वानमवतीर्णा यं गुरुगत्या महागजाः । न संचरति किं तत्र करिपोतः स्खलद्गतिः ॥ २३॥ तन्मयापि प्रभोर्भक्तिप्रकर्षवश चेतसा । चरित्रं रचितं संघानुमतं च न दुष्यति ॥ २४ ॥ यदत्र किञ्चिन्मूढत्वादलीकं ग्रथितं भवेत् । सर्व माय कृपां कृत्वा संशोध्यं तन्मनीषिभिः ॥ २९ ॥ निशम्य सम्यक् श्रीपार्श्वस्वामिनश्चरितं वरम् । भविकैस्तत्तात्पर्यार्थो धारणीयः सदा हृदि ॥ २६ ॥ गुरुमेघवन बिभ्रत्सरोवत्कमलोज्ज्वलः । दृश्यते स्फुटमुत्तानः स्थलवत्तु रजोमयः ॥ २७ ॥ अङ्गं लवादपि यथा पटुतां सुधायाः कल्याणतां भजति सिद्धरसस्य लोहम् । सच्चन्दनस्य हिमतामतितप्त तैलं जीवस्तथा जिनमतस्य हि सिद्धभावम् ॥ २८ ॥ दशभव वरपत्रं पार्श्वभर्तुश्चरित्रं कमलमुदयनालं पुण्यलक्ष्मीविशालम् । प्रमुदितमुनिभङ्गं सौरभोद्गारचङ्गं विलसतु बुधचेतः पल्वले नित्यमेतत् ॥ २९ ॥ इति श्रीपार्श्वनाथचरित्रं समाप्तम् ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy