SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 204 EXTRACTS FROM MANUSCRIPTS ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः । यस्याख्यानसमानमेष बहुशो व्याचक्ष्यमाणो ऽधुना गच्छोगच्छदतुच्छगुर्जरभुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५॥ मनसि धनविवेकस्नेहसंसेकदीप्तो द्युतिमतनुत यस्य ज्ञानरूपप्रदीपः । अममतमतमांसि ध्वंसयन्नञ्जसाऽसौ न खलु मलिनिमानं किं तु कुत्रापि चक्रे ॥ ६ ॥ श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्र मुक्तावलीविमलनायकतां ततान । ज्योतिस्तदुज्ज्वलतरं विकिरन धरित्र्यां चित्रं न यस्तरलतां कलयांचकार ॥ ७ ॥ दाक्षिण्यैकनिधिर्व्यधान्न सहजे देहेऽप्यहो वांछितं कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्मानुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं यो विज्ञात समस्तवस्तुरभवनुल्यश्च हेमाश्मनोः ॥ ८ ॥ तदीयपट्टे जाने वीरसूरिर्यन्मान से निर्मलदर्पणाभे । निरूपयामास सरस्वती सत्त्रविध्यविद्यामयमात्मरूपम् ॥ ९ ॥ सदाभ्यासावेशप्रथितपृथमन्थानमयिता दवाप्तं तर्काधिपतिसिद्धशमाहितम् । यदीयं वाग्ब्रह्मा मतमकृत दर्पज्वरभरप्रशान्ति निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥ १०॥ तस्मादभूत्संयमराज्यनेता मुनीश्वरः श्रीजिनदेवसूरिः । यो धर्ममारोप्य गुणे विशुद्धध्यानेषुणा मोहरिपुं विभेद ॥ ११ ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy