________________
190
ESTRACTS FROM MANUSCRIPTS
क्षेमरेण गणिना वरगद्यपद्यबन्धेन युक्तिकृतसंस्कृतबन्धुरेण । विश्वोपकारविलसद्गुणकीर्तनाय चक्रेऽचिरादमरपण्डितहर्षहेतुः ॥ ॥ ग्रं० १९६७ ॥
No. 404. Halayudhakosha, by HALAYUDHA [हलायुधकोशः कवि-- रहस्यापरनामा-हलायुधः].
Begins : जयन्ति मुरजित्पादनखदीधितिदीपिकाः । मोहान्धकारविध्वंसान्मुक्तिमार्गप्रदार्शकाः ॥ १॥ लोकेषु शास्त्रेषु च ये प्रसिद्धाः काव्येषु ये सत्कविभिः प्रयुक्ताः । तच्चिन्त्यतां चित्तविनोदनाय शब्दानहं धातुभिरुद्धरामि ॥ २ ॥ एकार्था एकशब्दाश्च नानार्थाश्चैकवाचकाः । सदृशार्थाभिधानाश्च नानार्थाः सदृशाक्षराः ॥ ३ ॥ एकार्थास्तुल्यशब्दाश्च निबध्यन्तेऽत्र धातवः । धातुपारायणाम्भोधिपारोत्तीर्णधिया मया ॥ ४ ॥ अस्त्यगस्त्यमुनिज्योत्स्नापवित्रे दक्षिणापथे । कृष्णराज इति ख्यातो राजा साम्राज्यदीक्षितः ॥ ६ ॥ गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सित उदारमतिः सदैव । वित्तं जुगापयति यस्तु वनीपकेभ्यो धीरो न गुप्यति महत्यपि कार्यजाते ॥ ६ ॥ __Ends : एजते राजचिरैर्य एजत्येतद्भयाज्जगत् । इन्धे युद्धेषु यत्तेज एधते यः श्रियाधिकम् ॥ २०६९ ॥