________________
PURCHASED FOR GOVERNMENT.
No. 398, Sinhasanadvatrinsaka by KSHEMANKARAMUNI सिंहासनद्वात्रिंशका - क्षेमंकरमुनिः]
Begins:
अनन्तशब्दार्थगतोपयोगिनः पश्यन्ति पारं नहिं यस्य योगिनः । जगत्रयाशेषतमोविनाशकं ज्योतिः परं तज्जयति प्रकाशकम् ॥ १ ॥ अनेकवैचित्र्यमयं जगत्रयं प्रयाति साक्षात्प्रतिबिम्बरूपताम् । यस्यानिशं ज्ञानमयैकदर्पणे प्रणौमि तं श्रीभगवन्तमादिमम् ॥ २॥ ये पूजनीयाः सुमनःसमूहैस्ते सन्तु मे श्रीगुरवः प्रसन्नाः । सदानवो यत्प्रतिभाप्रकर्षः पुनन्तु ते श्रीकवयश्च वाचम् ॥ ३ ॥
189
सकलसुरासुरनरनिकरनायकप्रणतपादारविन्दश्री सर्वज्ञशासनप्रभाव कस्य परमगुरुश्रीसिद्धसेनदिवाकरप्रणीतोपदेशपेशलविवेकस्य जगद्वर्यधैर्यगाम्भीपरमैौदार्यादिगुणगणालंकृतस्य विक्रमाक्रान्तत्रिविक्रमस्य श्रीविक्रमनरेश्वरस्य कश्चित्प्रबन्धः प्रारभ्यते । तस्यायं पूर्वकविसंप्रदायः । यत्पूर्वं देवताधिष्ठितचन्द्रकान्तरत्नमयसिंहासनस्थद्वात्रिंशत्पुत्रिकाभिः प्रवर राज्यलक्ष्मीनिवासाम्भोजस्य श्रीभोजनरेश्वरस्य पुरतो महाश्चर्यमयद्वात्रिंशत्कथानकैः श्रीविक्रमादित्यस्य गुणोत्कीर्त्तनं चक्रे ॥
तत्र केपि जिज्ञासवः कथयन्ति कस्य तत्सिंहासनं, केन कस्य अर्पितं, कथं भोजेन लब्धं, कानि तानि कथानकानीति । तत्सर्वमावेद्यमानं श्रूयताम् ॥
Ends:
श्रीभोजस्तु जलनिधिमेखलाया अखण्डशासनश्चिरं रराज राजलक्ष्म्याः इति सिंहासनद्वात्रिंशका समाप्ता ॥
श्री विक्रमादित्यनरेश्वरस्य चरित्रमेतत्कविभिर्निबद्धम् ।
परा महाराष्ट्रचरिष्टभाषामयं महाश्चर्यकरं नराणाम् |