________________
188
EXTRACTS FROM MANUSCRIPTS
___No. 352. Natyadarpana. by RAMACHANDR.1 . [ नाट्यदर्पणः-- रामचन्द्रः]. Begins: चतुर्वर्गफलं नित्यं जैनी वाचमुपास्महे । रूपैदशभिर्विश्वं यया न्याय्ये धृतं पथि ॥ १ ॥ अभिनेयस्य काव्यस्य भूरिभेदभृतः कियत् । कियतोऽपि प्रसिद्धस्य दृष्टं लक्ष्म प्रचक्ष्महे ॥ २ ॥ नाटकं प्रकरणं च नाटिका प्रकरण्यथ। व्यायोगः समवस्कारो भाणः प्रसहनं डिमः । ३ Ends : सूत्री भावोनुगेनासौ तेन मार्षसमः सखा । शिष्यात्मजानुजाः पुत्रो वात्सो तातो जरन्नपि । सौम्यो भद्र मुखश्चेति नीची हंडे तु पामरैः । येन कर्मादिना यस्तु ख्यातः स तदुपाधिकः ।। शूरे विक्रमसंसूचि कल्थं नामाथ वाणिजे । दत्तान्तं प्रायशो विप्रे गोप्यकर्मानुरूप्यतः ॥ नृपस्त्रियां शुभंदत्ता सेनान्तं पणयोषिति । पुष्पादिवाचकं चेट्यां चेटे मङ्गलकीर्तनम् ।। रूपस्वरूपं विज्ञातुं यदीच्छत यथास्थितम् । सन्तस्तदानी गृह्णीत निर्मलं नाट्यदर्पणम् ।।
इति श्रीरामचन्द्र गुणचन्द्रविरचिते नाट्यदर्पणसूत्रे सर्वरूपकसाधारणलक्षणनिर्णयो नाम चतुर्थो विवेकः समाप्तः ॥ ॥