________________
184
"
त्वमेव तत्राध्ययनविधिबलात् सिद्धस्पार्थस्य निष्प्रयोजनत्वादिति केचित्तदयुक्तम् । तथा सति तद्बलादेवैकवाक्यत्वप्रसङ्गात् । तस्माद्धर्मप्रामाण्यासद्धार्थतया न संभवति तच्चिन्तनीयमित्यभिप्रायः । कथमेकवाक्यताविरहः कार्यस्य कार्येण सहान्वयात् अर्थवादार्थस्य च सिद्धत्वात् कथं तर्हि नियोज्यान्वयो नियोज्यस्याकार्यत्वात् तत्र निरुद्वे नियोगेन सिद्धार्थान्वयो नियोज्यान्वयस्तु अनिरूढ एवार्थ इति केचित् । तत्र नियुक्तिकत्वात् । तथाप्यर्थवादानामनिरूढ एवान्वयोस्थिति बोधानिवृत्तेः अनिर्वाहकत्वादनिरूढिदशायां नान्वय इतिवत् । एवं तर्हि न सिद्धत्वे हेतुः स्यात् तथापि निरूढिदशायामनन्वये सिद्धत्वं हेतुरिति चेत् न कालादेरप्यन्वयदर्शनात् । तेषामपि क्रियानिवशेन साध्यतेति चेत् न अन्योन्याश्रयापत्तेः ॥ क्रियान्वये साध्यता साध्यत्वे च क्रियान्वयः इति तस्मादेवं वाच्यम् । कृत्यनुरञ्जनयोग्यं कार्यमत्राभिप्रेतं तच्च द्वयं नियोज्यकोटिर्वियप कोटिश्व । कोटिद्वयबहिर्भूतं सिद्धमभिप्रेतम् । न चातीतस्य चोदनादेर्वर्त्तमानस्यच वायुक्षेपिष्ठत्वादेः कोटिद्वये योग्यता विद्यत इति नैकवाक्यत्वम् । राद्धान्तस्तु । यद्यप्येकवाक्यता न प्रतीयते तथाप्यध्ययनविविना सार्थस्य वेदस्य प्रयोजनवदर्थपरत्वापादनात् ।
-
EXTRACTS FROM MANUSCRIPTS
Ends :
इदं तु वाच्यम् मत्वर्थोपल्क्ष्यमाणः केन लक्ष्यते । यदि प्रातिपदिकेन ततः पशुना यजेतेति वाक्ये पशुपदेन पशुमद्यजेर्लक्षितत्वात् करणैकत्वे पशुमद्यागे स्याताम् । गङ्गायामिवेत्यत्र तीरगतमधिकरणत्वं न तु जलगतम् । अथ पशुपदेन यागवान् स्वार्थो लक्ष्यते धवपदेन खादिवान् स्त्रार्थो न तु पशुमान् यागः। ततः पशुगत एव करणत्वे उच्यते । तन्न । तथापि तादृशेन गुणेन यजिनान्विताभिवानं कर्तव्यमिति । तं प्रति साध्यत्वेनार्थोग्रणीय इति कुतो न वैरूप्यम् । न चैवं पशुपदेन मत्वर्थलक्षणा स्यात् । मतुपः प्रातिपदिकार्थमुक्तार्थप्रतिपादकत्वात् । अथ यजिपदे मत्वर्थलक्षणा तदा
1