________________
PURCHASED FOR GOVERNMENT.
183
पत्रे १५ – महामहोपाध्यायश्रीशालिकनाथ मिश्रकृतायामृजुविमलाख्या
यां पञ्जिकायां प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥
...
Ends:
सामसु अत्र कालविधानमेव मन्वानो न शक्नोति पूर्वपक्षयितुं विकृताभावार्थविधानात् । दर्शनग्रहाविकरणवद्प्रतिपक्षत्वाच्च भावार्थविधानस्येत्युक्तम् । अनेकगुणश्रवणाचेःयपि द्रष्टव्यम् । अतः स्तुत्यन्तरमेवेदम् | सामावशिष्टं विधीयते दानवदानान्तरकार्ये स्तुतिरपि स्तुत्यन्तरकार्ये वर्त्तत इति पूर्वपक्षयति समानजातीयत्वात् स्तुतिः स्तुत्यन्तरकार्ये वर्त्तत इति श क्यते वक्तुमिति प्राकृतस्तुतिनिवृत्तिः राद्धान्तस्तु स्यादेतदेवं । यदि गुणमात्रबिधिः स्यात्कैौञ्चादिवत् । इह तु विशिष्टविधानं अन्यथा यदि विशिष्टविधानं नाश्रीयते तदा यथाश्रुतान्वयानुपपत्तिः देशविशिष्टस्याप्यन्वयावगमात् । ततः किं यदि विशिष्टविधानं न स्तुत्यन्तरकार्ये वर्त्तत इति शक्यते वक्तुम् । अदृष्टार्थत्वात्स्तुतीनां दानेन दृष्टार्थतया युक्तो दानान्तरेण वैकृतेन प्राकृतदानप्रत्याम्नायः । न तु भाष्यकारेण साम्नां निवृत्तिरित्युक्तं न स्तुत्यन्तरेण स्तुतीनां निवृत्तिरित्युक्तं अतो भाष्यविरोधः उत्तरं फलतस्तद्वत् ।
No. 308. Tripadinitinayanam by MURARI [ त्रिपादीनीतिनंयनम् - मुरारिः ].
Begins :
ॐ नमः सरस्वत्यै॥
॥ आम्नायस्य ॥ १।२ । १ । उक्तं कार्यमर्थं प्रतिपादयतो वेदस्य प्रामाण्यं न चार्थवादानां कार्यार्थता विधिना सहैकवाक्यत्वे प्रमाणाभावात् । तस्मादप्रामाण्यमिति परेषां पूर्वपक्षः । ननु तेषां सिद्धेऽपि व्युत्पत्तेः कथं कार्या