________________
PRESERVED AT ANHILWAD PATAN.
159
यद्वाचो यमकादिचित्ररचिता भावैर्नवैः प्लाविताः श्रुत्वाद्यापि जनस्य कस्य हृदयं चित्रीयते नो इह ॥ १० ॥ शिष्यस्ततोभून्मतिवर्धनोस्य विद्याप्रदानान्मतिवर्द्धनो यः । विनेयवर्येषु निसर्गवाग्मी न स्पर्द्धनं येन चकार वाग्मी ॥ ११ ॥ दुष्टव्यंतरसंगसज्जितबला मारिर्मदा व्यंतरी सात्रैवापुरि वारिता निजतनुं दत्त्वार्दयंती जनान् । येन श्रावकलोकरक्षणकृते भूपालवंद्यक्रमो विद्यादानजनिष्ट मेरुतिलकस्तस्यांतिषवाचकः ॥ १२ ॥ निर्विकारसदाचारदयाकलशसन्निभाः। तत्सती• यथार्थाख्या दयाकलशवाचकाः ॥ १३ ॥ मतिमदमरमाणिक्याभिधानाः प्रधानाः प्रगुणगुणसमूहैर्वाचनाचार्यधुर्याः । समजनिषत जाग्रत्साधुमार्गाधिकारा दलितमदनसारास्तद्विनेया उदाराः॥१४॥ तत्पादपंकेरुहचंचरीका रूपश्रिया मोहितसुंदरीकाः । श्लाघाविधानोद्यतकिन्नरीकाः श्रीसाधुकीया॑वयका बभूवुः ॥ १५ ॥ ख्याताकब्बरपादसाहिपरिषन्मध्ये विदां साक्षिकं कृत्वा वादमखर्वगर्वचटितं निर्जित्य दुर्वादिनम् । आविष्कृत्य --- पौषधविधौ नेत्यक्षरं ह्यागमे वादीद्र बिरुदं नृपादकबरालेभे समं कौविदैः ॥ १६ ॥ शास्त्राध्यापनसत्रसद्मनियतं यैर्मडितं भूतले पायंपायमपायदोषविकलं विद्यारसं पूरुषाः । आघ्राता इव नापरत्र विदधुस्त प्रार्थनं वाग्मिनां भंगारोपमसाधुकीतिगणयः श्रीपाठका जज्ञिरे ॥ १७ ॥