________________
158
EXTRACTS FROM MANUSCRIPTS
तीर्थोवाकरमोक्षसिंधुझषगोरक्षा कुशास्त्रप्रतिसर्वावास्यजिनेशशासनयतित्राणावदाताक्षरैः । चंद्रे चिन्हमिषान्निजां सदभिधामारोपयामास यो जज्ञेऽसौ जिनचंद्रसूरिसुगुरुस्साहिप्रबोधप्रदः ॥ ४ ॥ तत्पट्टे जिनसिंहमूरिरुदगाद्भास्वानिवानंदयन् लोकान्साहिसरोरुहं निजगवा प्रोद्बुध्य भास्वत्प्रभः । आषण्मासममारिघोषपटहामोदैः सवासा दिशश्चक्रे वक्रनतिप्रवादिनिकरध्मातावलीध्वंसकः ॥ ५ ॥ गंगोत्तुंगतरंगभंगिविलसम्छोभर्घिसंस्पर्धिनि स्वगंगापुलिने सुनेत्रनलिने चांद्रे मृगे मोहनम् । कुर्वत्योऽप्सरसो विशेषितरसा गायति येषां गुणांस्तत्पट्टे जिनराजसरिगुरवो मुंजंति राज्यश्रियम् ॥ ६ ॥ श्रीअंबिकालब्धवरप्रसादाश्चारित्रलक्ष्मीविपुलप्रसादाः । प्रतिष्ठितानेकजिनप्रसादा जयंतु पूज्या विगतावसादाः ॥ ७ ॥ अश्रेयः- - -प्रसादमधुरीपीयूषपुत्किराः कामोन्मादहराः कृपारसघना आनंदकंदांकुराः । श्रुत्वा सज्जनमानसानि रुचिरा हृष्यति येषां गिरस्तत्पट्टे जिनसागरा अपि दधुराचार्यसंझं पदम् ॥ ८॥ येषामेष गुणान्पुराणपुरुषो वक्रैश्चतुर्भिः स्फुरजिव्हाकैर्वदनैरनिद्यरदनैौरीवरः पंचभिः । पाडुः षण्मुख एष दोषरहितं गायति ते जज्ञिरे शाखायां जिनभद्रसूरिगणपा आद्या नमन्नाकिनः॥९॥ तच्छिष्याः समजायताक्षयजया मध्येसभं वाग्मिनां श्रीपद्मादिम - कवाचकवरा ग्रंथावलीवाचकाः ।