________________
PRESERVED AT ANHILWAD PATAN. ____157 सुगमम् ॥ नवरं काशकृत्स्निश्च आपिशलिश्चेति द्वंद्वे काशकृत्स्न्यापिशली। इकारांताविमौ शब्दौ । शाब्दिकाः शब्दज्ञातारः । अथ ग्रंथनाम ग्रंथस्वरूपं च प्ररूपयति ।
वीक्ष्यानेकान्धातुपाठानाद्यंते मातृकाक्रमः ।
धातुरत्नाकरो नाम धातुपाठो विधीयते ॥ ३ ॥ सुगमम् ॥ Commentary ends:
इति श्रीवादींद्रश्रीसाधुकी[पाध्यायशिष्यलेशवाचनाचार्यसाधुसुंदरगणिविरचिते क्रियाकल्पलतानाम्नि स्वोपज्ञधातुरत्नाकरधातुपाठवृत्तिः समाप्ता ॥ अथ प्रशस्तिः॥ पूर्व कौटिकनाम्नि धाम्नि महसां गच्छे जिनाज्ञातरोगुच्छे चांद्रकुले कलाभिरमले सदृत्ततामंजुले। आसीदुद्यतसंयतोचितविधिः श्रीवर्द्धमानोपमः संसेव्यो धरणोरगाधिपतिना श्रीवर्द्धमानः प्रभुः ॥ १॥ तच्छिष्यस्समभूजिनेश्वरगुरुस्संख्यावतामग्रणी
र्यो भूवल्लभदुर्लभस्य परिषन्मध्ये मुनिव्यसकान् । निर्जित्यागमयुक्तिभिः खरतरख्याति नृपख्यापितां लेभे बिंदुकुलाद्रिदिक्पतिमिते वर्षे पुरे पत्तने ॥ २ ॥ आसंस्तत्र युगप्रधानपदवीसीमंतिनीनायकाः श्रीमच्छ्रीजिनचंद्रसारिप्रमुखाः श्रीसूरयो भूरयः । येषां कीर्तिनटी कृतामरतटीस्नाना प्रधाना गुणैरारूढा सुरशैलवंशशिखरेष्वद्यापि या खलति ॥ ३॥ ततश्च ॥