________________
156
EXTRACTS FROM MANUSCRIPTS
No. 2. Dhaturatnakara, by SADHUSUNDARA, with author's Commentary [धातुरत्नाकरः सटीक :- मू० टी० - साधुसुन्दरः ]Commentary begins:
श्रीमान्स श्री सुमतिजिनपो बुद्धिसौभाग्यदाता कल्याणार्ली वितरतु सतां विश्वविश्वोपकारी ।
यस्मिन्गर्भे स्थितवति प्रसूः प्रज्ञया स्त्रीद्वयस्य जाता वादापघनपटुर्हर्षयंती जनीधम् ॥ १ ॥
अगणितमहिमा देवनागेन्द्र पुंभिः प्रकटमभयदेवाचार्यवर्यैः सुनुत्या । प्रकटितवरबिंबः पापत।पापहारी विदलतु दुरितौघं स्तंभनाधीशपार्श्वः ॥ २ ॥ या ध्याता योर्गीद्रैर्नमस्कृतानेकबुधजनैः सततम् । हृन्मुखकमलनिवासं करोतु मम भारती साय ॥ ३ ॥ दुर्वादिमत्ताद्वपकेसरिम्यो विद्यावशावल्लभवल्लभेभ्यः । श्रीसाधुकीर्त्याह्वयपाठकेभ्यो नमामि मदीक्षकशिक्षकेभ्यः ॥ ४ ॥ स्मृत्वैवं स्मरणीयांनीन् क्रियाकल्पलताभिधा ।
स्वोपज्ञवातुपाठस्य वृत्तिर्वर्या विधीयते ॥ ५ ॥
तत्रादौ ग्रंथकदुचितेष्टदेवतां परमज्योतीरूपमविनेन चिकीर्षितप रिसमाप्तये शिष्टाचारपरिपालनाय च भव्याशीर्वादाने स्मरति ।
Text begins :
श्रीदं स्तात्परमं ज्योतिः शब्दब्रह्मैककारणम् । योगिवर्यैः सदा ध्येयं चितितार्थसमर्थकम् ॥ १ ॥
॥ सुगमम् ॥ न वरं शब्दब्रह्मैककारणं शब्दज्ञानस्य मुख्यहेतुः ॥ २ ॥ अथ पूर्वाचार्याजयवादेन प्रीणयति ॥
इंद्रश्चंद्रः काशकृत्स्न्यापिशली शाकटायनः । पाणिन्यमरजैनेंद्रा जयंत्याष्टादिशाब्दिकाः ॥ २ ॥