________________
Patan Paper Manuscripts. No. 1. Aptaparikshatika, by VIDYANANDA [आप्तपरीक्षाविद्यानन्दः]. __Leaves 1 to 16. Begins : प्रबुद्धाशेषतंत्रार्थबोधदीधितिमालिने। नमः श्रीजिनचंद्राय मोह-प्रभेदिने ॥ १ ॥
कस्मात्पुनः परमेष्ठिनः स्तोत्रं शास्त्रादौ शास्त्रकाराः प्राहुरित्यभिधीयते ॥ श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः। इत्याहुस्तगुणस्तोत्रं शास्त्रादौ मुनिपुंगवाः ॥ २ ॥ Ends : श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रस्थानारंभकाले सकलमलभिदे शास्त्रकारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितपृथुपथं स्वामिमीमांसितं तद्विद्यानंदैः स्वशक्त्या कथमपि कथितं सत्यवाक्यार्थसिद्धयै ।। इति तत्त्वार्थशास्त्रादौ मुनींद्रस्तोत्रगोचरा। प्रणीताप्तपरीक्षेयं विवादविनिवृत्तये ॥ विद्यानंदहिमाचलमुखपद्मविनिर्गता सुगंभीरा ।
आप्तपरीक्षा टीका गंगावञ्चिरतरं जयतु ।। भास्व -- निर्दोषा कुमतमलध्वांतभेदनप्रतिष्ठा । आप्तपरीक्षालंकृतिराचंद्रार्क चिरं जयतु ॥ स जयतु विद्यानंदो रत्नत्रयभूरिभूषणः सततम् । तत्त्वार्थार्णवतरणे सदुपायः प्रकटितो येन ॥