________________
160 -
EXTRACTS FROM MANUSCRIPTS
विमलतिलकनामा तद्विनेयेषु मुख्यः स्वगुरुपरमभक्तश्चारुचारित्रयुक्तः।। इह हि विजयतेऽसौ ज्ञातसिद्धांतयुक्तिः सततमधिकमस्मद्भक्तिभावं दधानः ॥ १८ ॥ तच्छिष्योस्ति च साधुसुंदर इति ख्यातो द्वितीयो भुवि तेनेषा विवृतिः कृता मतिमतां प्रीतिप्रदा सादरम् । स्वोपज्ञोत्तमधातुपाठविलसत्सद्धातुरत्नाकरग्रंथस्यास्य विशिष्टशाब्दिकमतान्यालोक्य संक्षेपतः ॥ १९ ।। व्योमसिद्धिरसक्षोणीमितेऽब्दे विवृतिः कृता । क्रियाकल्पलतानाम्नी शुभे दीपालिकादिने ॥ २० ॥ गुरुभाक्तिप्रतिष्ठेन विद्वद्विमलकीर्तिना। ग्रंथोयं प्रथमादर्श सुविविष्य निवेशितः ॥ २१ ॥ अधिकविषममेतद्धातुरूपस्वरूपं किमपि लिखितमत्र श्रेष्ठशास्त्रानुसारात् । भवात हि यदशुद्धं पाणिनीयैः प्रसद्य तदिह विबुधमुख्यैः शोध्यमेषोंजलिवः ॥ २२ ।। यावद्वयोम्नि निशा शशांकधवला ताराकुलैराकुला यावदानुरनूनभानुभिरसौ ध्वांतं निहंति स्फुटम् । यावत्तिष्ठति पुष्पदंतसहितं हेमाचले भूतले तावच्छास्त्रमिदं विदंभहृदये जागर्तु विद्यावताम् ॥ २३ ॥ इति क्रियाकल्पलतानाम्नी वृत्तिः समाप्ता ।