________________
126
.
EXTRACTS FROI MANUSCRIPTS
तदनु मदनहंता शासनोद्योतकारी जयति विजयासिंहः सूरिभूरिप्रतिष्ठः । सबलकलिविघातं संयमासिप्रहारैरकृत सुकृतपात्रं भव्यकोकैकभानुः ॥७॥ तत्पट्टपंकेरुहराजहंसः श्रीदेवभद्रो गुण मृत् रराज । उवास यः सज्जनमानसेषु निर्दूषणं खलितशुद्धपक्षः ॥ ८ ॥ तदंतरं निर्जितमोहमल्लः श्रीधर्मघोषः सुगुरुर्गरीयान् । संसारपूरेण तु नीयमानं ररक्ष यो धार्मिकलोकमेकम् ॥ ९॥ सञ्चंद्र सूर्याविव तस्य पट्टे बभूवतुर्दो जयिनौ गणेशौ । ' श्रीसीलभद्रः प्रथमः प्रवीणः सूरिस्ततः श्रीपरिपूर्णदेवः ॥ १० ॥ विजयसेनगुरुस्तदनंतरं विजयते वसुधातलमंडनः । निविडकर्मरिपून्समसायकैरपजहार विकारविरागवान् ॥ ११ ॥ भवत्रयं यो कलयांचकार ज्ञानोदधिगौतमवन्निजस्य । नरेंद्रसामंतसहस्रवंद्यः श्रीधर्मदेवो जयताद्गणेशः ॥ १२ ॥ - - - - - वृतस्य पक्षः चतुर्दशीपक्षविचारदक्षः । . समग्रसिद्धांतविलासवेदी श्रीधर्मचंद्रो जयताद्गणेशः ॥ १३ ॥ तत्पशैलेंद्रमृगेंद्रतुल्यः श्रीधरत्नः सुगुरुश्चकास्ति । महाव्रतैः पंचभिरेव योसौ पंचाननत्वं बिभरांबभूवे ॥ १४ ॥ तत्पट्टपूर्वगिरिराजपदप्रकाशी ज्ञानोदधिर्भविकसद्मशिरोविकाशी ॥ पापांधकारतरणिर्मददर्पहंता श्रीधर्मयुक्तिलकसूरिगुरुर्बभूव ॥ १६ ॥ ... तत्पढे श्रीधर्मसिंहः कविकरटमदारंभसंमेददक्षो मुख्यो मोक्षार्थिनां हृच्छमदमकरुणाराशिरासीत्स नूनम् ।। भूरिज्ञाने निवासी बुधजनमनसि प्राप्तवासः सदा यः सर्वज्ञाहत्प्रणामप्रणतहृदयः सद्गुरूपास्ति संस्थः ॥ १६ ॥ धर्मप्रधानः स च विश्वलोके धर्मप्रभः सूरिरितोदयः स्यात् । चिकित्सया यो क्रिययापि रोगान् बाह्यांतरंगान बहुशो निहति ॥ १७ ॥