________________
PRESERVED AT ANHILWAD PATAN... 125 संवत् १३९४ वर्षे कार्तिकसुदि प्रतिपदायां शुक्रे श्रीयुगादिचैत्यमंडिते मडवाडापामे श्रीउपदेशमालावृत्तिः सुगुरुश्रीसर्वदेवसूरिवाचनक्रियायोग्या पं०अभयकलसेन लिषिता ॥ शुभमस्तु ।।
No. 76. Gurustuti, by DHARMA PRABHASURI [गुरुस्तुतिः-धर्मप्रभसूरिः]. जज्ञे वीरजिनात्सुधर्मगणभृत्तस्माच्च जंबूस्ततः संख्यातेषु गतेषु मरिषु भुवि श्रीवज्रशाखाभवत् । तस्यां चंद्र कुलं मुनींद्रविपुलं तस्मिन् बृहद्गछता तत्राभूद्यशसा प्रसादितकुकुभ् श्रीसर्वदेवप्रभुः ॥ १ ॥ श्रीनेमिचंद्राभिधसूरिरस्मात् जज्ञे जगन्नेत्रचकोरचंद्रः। चारित्रलक्ष्मीललितांगहारः पौरोपचारोरुशुभानुकारः ॥ २ ॥ वादींद्रः कविपुंगवैकतिलकः साक्षात्रिलोकीसरःक्रोडक्रीडदशेषसजनमहो चारित्रचूडामणिः । नंद्यादद्भुतभाजनं स भगवान् श्रीशांतिसूरिप्रभुः पृथ्वीचंद्रचरित्रसत्रमकरोद्यो विश्वदत्तोत्सवः ॥ ३ ॥ .. श्रीमन्महेंद्रो विजयाख्यसिंहो देवेंद्रचंद्रः शुचिपद्मदेवः । श्रीपूर्णचंद्रो जयदेवसरिहेमप्रभो नाम जिनेश्वरश्च ॥ ४ ॥ सिद्धश्रावककारिते निरूपमे श्रीनेमिचये पुरा पूज्यैरष्टगणेश्वरा निजपदे संस्थापयांचक्रिरे । श्रीमपिप्पलगच्छनायकतया विज्ञाय होराबलं विख्याता भुवि शांतिपूरिगुरवः कुर्वतु वो मंगलम् ॥ ६ ॥ चक्रेश्वरी यस्य पुपोष पूजां सिद्धोऽभवद् यस्य गिरा नमस्यः । श्रीवृक्षगच्छांबरसप्तसाप्तः श्रीशांतिसूरिः सुगुरुर्बभूव ॥ ६ ॥