________________
124
EXTRACTS FROM MANUSCRIPTS
तत्पट्टप्रभवोऽभवन्नवगुणग्रामाभिरामोदयाः । श्रीभद्रेश्वरसूरय - - - - स्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकते श्रीदेवरिप्रभोः शिष्यैः सेयमकारि सन्मदकृते वृत्तिविशेषार्थिनाम् ।। श्रीदेवमरिशिष्यभ्रातृणां विजयसेनसूरीणाम् । आदेशस्यानृणभावमगममेतावताहमिह ॥ यदियमुपदेशमाला श्रावकलोकस्य मूलसिद्धांतः।। प्रायेण - - - - - तदिहास्माभिः कृतो यत्नः ॥ व्याख्यातृचूडामणिसिद्धनाम्ना प्रायेण गाथार्थ इहाऽप्यधायि कचित्क्वचिच्चानु विशेषरेखा साढ़ेः स्वयं सा परिभावनीया ॥ यदिह किंचिदनागमिकं क्वचिद्विरचितं मतिमंदतया मया। तदखिलं सुधियः क्षमयामि वः कृतकृपाः परिशोधयतादरात् ।। प्राप्य परस्य च सूत्रावृत्तिविस्तारिताथवा स्वीया । मणिखंडमंडलैरिव सुवर्णपूजा जिनेंद्राणाम् ॥ प्रकृता समर्थिता च श्रीवीरजिनाग्रतो भृगुपुरे ऽसौ । अश्वावबोधतीर्थे श्रीसुव्रतपर्युपास्तिवशात् ।। संशोधिता तथा श्रीभद्रेश्वरमरिमुख्यविबुधवरैः । . पुनरपि कंटकशुद्धिः कार्या वः प्रार्थये सर्वान् ।। भास्वद्भास्करबिंबकांततिलकं प्रक्षिप्त - - कृतं निर्यन्नीलशिलातलांशुपटलीदारदर्वाङ्करम् । यावन्मेरुमहीभृतं प्रतिकरोत्यारात्रिकोत्तारणं । ताराभिर्युविलासिनी विजयतां तावन्नवैषा कृतिः ॥ विक्रमाद्वसुलोकार्क १२३८वर्षे माधे समर्थिता । एकादश सहस्राणि सार्द्ध पंचशतं तथा ॥ ११६९० ॥