________________
PRESERVED AT ANIILWAD PATAN.
103
श्रीमच्चत्रपरकमडनमहावीरप्रतिष्ठाकृतस्तस्माच्चित्रपुरप्रबोधतरणेः श्रीचैत्रगच्छो ऽजनि। तत्र श्रीभुवनेंद्रसरिसुगुरुभूभूषणं भासुरज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाभवत् ॥ ८ ॥ तत्पादांबुजमंडनं समभवत्पक्षद्वयीशुद्धिमानीरक्षीरसदृक्षदूषणगुणत्यागग्रहैकव्रतः । कालुष्यं च जडोद्भवं परिहरन् दूरेण सन्मानसस्थायीराजमरालवद्गाणवरः श्रीदेवभद्रप्रभुः ॥९॥ शस्याः शिष्यास्त्रयस्तत्पदसरसिरुहोत्संगशृंगारभुंगा विधस्तानंगमंगाः सुविहितविहितोत्तुंगरंगा बभूवुः । तत्राद्यः सच्चरित्रानुमतिकृतमतिः श्रीजगच्चंद्र सूरिः श्रीमद्देवेंद्रसूरिः सरलतरलसञ्चित्तवृत्तिद्वितीयः ॥ १० ॥ तृतीयशिष्याः श्रुतवारिवार्द्धयः परीषहाक्षोभ्यमनःसमाधयः । जयंति पूज्या विजयेंदुसूरयः परोपकारादिगुणौघभूरयः ॥ ११ ॥ प्रोढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्येयुषां येषां जैनपुरे परेण महसा प्रक्रांतकांतोत्सवे । स्थैर्य मेरुरगाधतां च जलधिः सर्वसहत्वं मही सोमः सौम्यमहर्पतिः किल महत्तेजोऽकृत प्राभृतम् ।। १२ ॥ वापंवापं प्रवचनवचोबीजराजी विनेयक्षेत्रवाते सुपरिमलिते शब्दशास्त्रादिसीरैः । यैः क्षेत्रज्ञैः शुचिगुरुजनाम्नायवाक्सारणाभिः सिक्त्वा तेने सुजनहृदयानंदिसज्ज्ञानसस्यम् ॥ १३ ॥ यैरप्रमत्तैः शुभमंत्रजापैतालमाधाय काल स्ववश्यम् । अतुल्यकल्याणमयोत्तमार्थसत्पुरुषः सत्वधनैरसाधि ॥ १४ ॥