SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 104 किंबहुना । व्योत्स्ना मंजुलया यया धवलितं विश्वंभरामंडलं या निःशेषविशेषविज्ञ जनताचेतश्चमत्कारिणी । तस्यां श्रीविजयेंदुसूरिसुगुरोर्निष्कृत्रिमाया गुणश्रेणेः स्याद्यदि वास्तवस्तवकृतौ विज्ञः स वाचांपतिः ॥ १५ ॥ तत्पाणिपंकजरजःपरिपूतशीर्षाः शिष्यास्त्रयो दधति संप्रति गच्छभारम् । श्रीवत्रसेन इति सद्गुरुरादिमोत्र श्रीपद्मचंद्रसुगुरुस्तु ततो द्वितीयः ॥ १६ ॥ तातयीकस्तेषां विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीक्षेमकीर्त्तिसूरिर्विनिर्ममे विवृतिमल्पमतिः ॥ १७ ॥ श्रीविक्रमतः क्रामति नयनाग्निगुणेंदुपरिमिते बर्षे । ज्येष्टश्वेतदशम्यां समर्थितैषा च हस्तार्के ॥ १८ ॥ प्रथमादर्श लिखिता नयप्रभप्रभृतिभिर्यतिभिरेषा | गुरुतरगुरुभक्ति भरोद्वहनादिव नत्रितशिरोभिः ॥ १९ ॥ इह वा । सूत्रादर्शेषु यतो भूयस्यो बाचना विलोक्यते । विषमाश्च भाष्यगाथाः प्रायः स्वरूपाश्च चूर्णिगिरः ॥ २० ॥ • EXTRACTS FROM MANUSCRIPTS ततः । सूत्रे वा भाष्ये वा यन्मतिमोहान्मयाऽन्यथा किमपि । लिखितं वा विवृतं वा तन्मिथ्या दुःकृतं भयात् ॥ २१ ॥ ग्रंथ ९१११ ॥ साहू० आसधरसुतसाधु० श्रीरतनसीह सुततेजपाल श्रेयोर्थ अयं कल्पवृत्तिपुस्तकं त्रितयखंड कारापितं लिखापितं च ॥ शुभं भवतु ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy