________________
102 EXTRACTS FROM MANUSCRIPTS सांद्रे भाष्यार्थसार्थामृतफलकलिते कल्पकल्पदुमेस्मिनाक्रष्टु षष्ठशाखाफलनिवहमसावंकुटीवास्तु टीका ॥ ६ ॥ समाप्ता चेयं सुखावबोधा नाम कल्पाध्ययनटीका ॥ सौवर्णा विविधार्थरत्नकलिता एते षडुदेशकाः श्रीकल्पेऽथ निधी मताः सुकलशा दौर्गत्यदुःखापहे । दृष्ट्वा चूर्णिसुबीजकाक्षरतात कुश्याथ गुर्वाज्ञया खानखानममी मया स्वपरयोरर्थे स्फुटार्थीकृताः ॥ १ ॥ श्रीकल्पसूत्रममृतं विबुधोपयोगयोग्यं जरामरणदारुणदुःखहारि। येनोद्धृतं मतिमथा मथितात् श्रुताब्धेः श्रीभद्र बाहुगुरवे प्रणतोऽस्मि तस्मै ॥२॥ येनेदं कल्पसूत्रं कमलमुकुलवत्कोमलं मंजुलाभिर्गोभिर्दोषापहाभिः स्फुट विषयविभागस्य संदर्शिकाभिः । उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्गारसारं वितेने तं निःसंबंधबंधुं नुत मुनिमधुपा भास्करं भाष्यकारम् ॥ ३ ॥ श्रीकल्पाध्ययनेऽस्मिन्नतिगंभीरार्थभाष्यपरिकलिते । विषमपदविवरणकृते श्रीचूणिकृते नमः कृतिने ॥ ४ ॥ श्रुतदेवताप्रसादादिदमध्ययनं विवृण्वता कुशलम् । यदवापि मया तेन प्राप्नुयां बोधिमहममलाम् ॥ ६ ॥ गमनयगभीरनीरश्चित्रोत्सर्गापवादवादोमिः । युक्तिशतरत्नरम्यो जैनागमजलनिधिर्जयति ॥ ६ ॥ श्रीजैनशासननभस्तलतिग्मरश्मिः श्रीसद्मचांद्रकुलपद्मविकाशकारी। स्वज्योतिरावृतदिगंबरडंबरोऽभूत् श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम्॥ ७