________________
90
EXTRACTS FROM MANUSCRIPTS
साधुश्राद्धजनस्य दुर्जनजनात्संजायमाना पराभूतिभूपतिवल्लभादपि मदेनांधाद्रणाद्विस्म । शक्त्या येन निवारिता जिनगृहादानेषु - - - - नुद्धारा जिनसद्मनां च जरतां जाता -- ज्ञया ॥ १६ ॥ आरुह्य बुद्धिमघमक्षतयानपात्रमप्युद्यमप्रबलमारुतवद्ववेगम् । यः संगमं सितपटस्य गुरोरवाष्य जैनागमार्णवतटं झटिति प्रयातः ।। १७ ।। येनोपदेशमाला चक्रे भवभावना च वृत्तियुता । अनुयोगद्वाराणां शतकस्य च विराचता वृत्तिः ॥ १८ ॥ मूलावश्यकटिप्यनकं विशेषावश्यकीयवृत्त्याढ्यम् । येन ग्रथितग्रंथस्य लक्षमेकं मनान्तनम् ॥ १९ ॥ तस्मादभूद्विजयसिंह इति प्रसिद्धः सूरिः सुधांशुकरगौरयशःसमूहः । बाल्यात्प्रभृत्यपि विवेककलानिशातं चेतः सदैव समजायत यस्य शांतम् ॥२०॥ धर्मोपदेशमालाविवरणमासीच्चिरंतनं तनुकम् । यत्तत्तेन सविस्तरमारचितं रसिकलोकमुदे ॥ २१ ॥ साहाय्यमत्र चक्रे गणिरभयकुमारसंज्ञितो विज्ञः । तस्यैव शोधनविधौ जाता मुनिपुंगवाः सर्वे ॥ २२ ॥ ग्रं० श्लोक १४४७१ ॥ मंगलं महाश्रीः । यस्याः क्षीरपयोनिधिर्निवसनं हारस्रजस्तारकास्ताडंके शशिभास्करौ सुरधुनी श्रीषंडपुंड्रस्थितिः । सा कीर्तिनरिनत्तिं यावदमला वीरस्य विश्वत्रयीरंगे तावदमंददुंदुभितुलां धत्तामसौ पुस्तकः ॥ १॥