________________
PRESERVED AT ANHILWAD PATAN.
यः कश्चिदप्यादरविप्रमुक्तः सुप्तः क्वचिद्धर्ममयक्रियायाम् । राज्ञापि तेन त्वरितं यदाज्ञा शेषेव शीर्षे निहिता सहर्षम् ।। ७ ।। यस्योपदेशादखिलस्वदेशे सिद्धाधिपः श्रीजयासिंहदेवः । एकादशीमुख्यदिनेष्वमारीमकारयस्छासनदानपूर्वाम् ।। ८ ।। यस्य संदेशकेनापि पृथ्वीराजेन भूभुजा । रणस्तंभपुरे न्यस्तः स्वर्णकुंभो जिनालये ॥ ९ ॥ दाने तपसि पूजायां कल्याणकमहोत्सवे । येन प्रवत्तितो लोकः प्रायेणाष्टाढिकासु च ॥ १० ॥ प्रमादरूपस्फुरदंधकारप्रच्छादिते वर्मनि संयमस्य । उद्यद्विवेकोद्यमदीप्तिजालैरुद्योतमादित्य इवाकरोद्यः ॥ ११ ॥ श्रीवीरदेवविदुषो वरमंत्रविद्यालाभेन यः समभवत्सुमहाप्रभावः । तस्य त्वभूदभयदेव इति प्रसिद्धं नामा- - - - - -विजनश्रुतीनाम् ।। १२ ।। श्रीहेमचंद्र इति सूरिरभूदमुष्य शिष्यः शिरोमणिरशेषमुनीश्वराणाम् । यस्याधुनापि चरितानि शरच्छशांकछायोज्ज्वलानि विलसंति दिशां मुखेषु ॥ १३ ॥ एकैकं जिनशासनोन्नतिकरं कार्य किमप्यद्भुतं तत्मसाधितवानसाध्यमपि यः सद्बुद्धिपाथोनिधिः । यद्वक्तुं वचसास्तु दूरतरतः शक्यं न चेतस्यपि ध्यातुं केनचिदेव देवगुरुणाप्यन्यस्य वार्तव का ॥ १४ ॥ सकलनिजधरित्रीमध्यमध्यासितानां जिनपतिभवनानां तुंगशृंगावलीषु । अनवयदुपदेशात्सिद्धराजेन राज्ञा फुरदविरलभासः स्थापिताः स्वर्णकुंभाः॥ १५॥
B669-12