________________
83
EXTRACTS FROM MANUSCRIPTS इति आमलकाद्वजाख्यानकं समाप्तम् ।। धन्मोबएसमालाविवरणमेयं सवित्थरं रइउ । पुण्णं जमज्जियं इह लहंतु भव्वा सिवं तेण ॥ २९४ ।। इक्कारसइगनउए माहे मासंमि किण्हपक्खमि । तेइयाए हत्थरिक्खे समत्तं विवरणं एयं ॥ ३९६ ॥ मंगलं महाश्रीः ॥ पृथ्वीभृता न मथितान्न जडस्वरूपादेत्यामरानपहृतामृतवामरत्नात । श्रीप्रश्नवाहनकुलाजलराशिकल्पात्कल्पदुमोपमगुणः पृथुरस्ति गच्छः ॥ १ ॥ यः श्रीहर्षपुरीय इत्यभिधया ख्यातः क्षमामंडले निःशेषास्वपि दिक्षु विजुतमहाशाखोपशाखागतः । संसेव्यः सुमनोभिरीप्सितफलप्राप्तेः परं कारणं छायासीनसमस्तजंतुजनितांतस्तापिितक्रियः ।। २ ॥ तत्र श्रीजयसिंहमूरिरभवन्निःशेषविश्वंभराभोगालंकरणक्षमैः क्षणशरच्चंद्रांशुगौरैर्गुणैः । उन्मीलन्नवकुंदगुच्छविशदस्वच्छस्वकीयव्रतव्यापारार्पितचित्तवृत्तिरसकद्दत्तप्रमोदः सताम् ।। ३ ।। एतस्मादपि शिष्यरत्नमनघं तकिंचिदुच्चैस्तरामुत्पन्नं परमप्रमोदजनकं निःशेषविद्वत्ततेः । यस्यात्यद्भुत भूरिनिर्मलगुणस्तोमस्तुतौ जिह्मतां ब्रह्मापि व्रजति क्षणेन गुणिनः कान्यस्य वार्ता पुनः ॥ ४ ॥ रूपं विनिर्जितमनोभवमूर्तिशोभं वाणी तु चंदनरसादपि दत्तशैत्या । अर्कोपलादपि मनो विमलस्वरूपं यस्य प्रशस्यपदवी किमु न प्रपेदे॥ ५ ॥ अत्यद्भुतानि जिनपुंगवशासनस्य श्लाघाकराणि चरितानि घनानि यस्य । श्रुत्वा स्वचेतास चिरं परिभावयतः संतो जनाः परमविस्मयमुद्वहति ॥ ६ ॥