________________
PRESERVED AT ANILWAD PATAN,
85
बभव प्रेयसी तस्य पृथ्वीदेवीति नामतः ।। विनीतविनया नित्यमौचित्यप्रियकारिणी ॥ २६ ॥ तदनु तनयो द्वितीयः समजनि धनसिंहनामको विनयी । निर्मलकलाकलापस्त्रैणक्रीडादिरभिरामः ॥ २७ ।। नाम्ना धांधलदवाति संजज्ञे तस्य गेहिनी । पुष्टयार्जवार्जितश्लाघा श्लाध्यकाभिरंजिका ।। २८ ।। ततस्तृतीयोजनि रत्नसिंहः संतापकारिव्यसनेभसिंहः । दूरं परित्यक्तविरुद्धसंगः श्रीमजिनद्रक्रमपद्मभंगः ॥ २० ॥ तस्याजनिष्ट दयिता नाम्ना राजलदेविका। पेथुकाख्या तयोः पुत्री समस्तानंददायिनी ॥ ३० ॥ अनन्यसौजन्यजनानुकीर्णे विवेकलीलोज्ज्वलचित्तवृत्तिः । सार्वत्रिकौचित्यविधिप्रवीणो जज्ञे जगत्सिंहसुतश्चतुर्थः ॥ ३१ ॥ पत्नी जाल्हणदेवीति नान्ना तस्य समजनि । कुत्राप्यनुत्सेकवती प्रदानविनयान्विता ॥ ३२ ।। सोलुकाख्या ततः पुत्री बभूव प्रियवादिनी । यस्याः शीलजलैः शुद्धैः पुण्यवल्ली प्रवर्द्धिता ॥ ३३ ॥ पत्नी ततोजा यत पल्हणस्य माणिक्यमालास्फुरदंशशीला । जिनोपदेशश्रुतिकर्णसारा कृपाप्रपा माणिकिनामधेया ॥ ३४ ।। समजनि तयोस्तनूजो वरणिगनामा समस्तगुणपात्रम् । निरिवलसुकुलैकधुराधुरंधरः स्मितमधुरभाषी ॥ ३५ ॥ बभूव प्रेयसी तस्य धनदेवीति विश्रुता । दाक्षिण्योज्ज्वलशीलेन सर्वेषां मोददायिनी ॥ ३६ ॥