________________
86
EXTRACTS FROM MANUSCRIPTS
अजायंत ततस्तिस्रः शोलालंकरणाः सुताः । कपुरदेवीभोपलदेव्यौ वोल्हणदेव्यपि ॥ ३७ ।। अभूदेवकुमारस्य प्रेयसी छडिकाभिधा । पतिव्रता समाचारचातुर्यार्जितसद्यशाः ॥ ३८ ॥ कुमारपालसुतोभूत् पितुराज्ञोद्यतस्तयोः । जिनशासनानुरागी विरागी दोषवस्तुषु ॥ ३९ ॥ विवेकरविरन्येयुः स्फुरात स्मातिनिर्मलः । संतोषाय मानसद्रोविद्राविततमस्ततिः ॥ ४० ॥ घातत्रस्ततुरंगमांगतरलाः संपत्तयोत्यूजिता लुभ्यल्लुब्धकबिभ्यदर्भकमृगीदृगचंचलं यौवनम् । व-प्रेमतडिल्लुताद्युतिचलं चैतत्तथा जीवितं मत्वैवं जिनधर्मकर्मणि मतिः कार्या नरैः शाश्वते ॥ ४ १ ॥ सोनंतसुखनिदानो धम्मोपि ज्ञायते श्रुतात् । श्रुतं च पुस्तकाधीनं तत्कार्यः पुस्तकोद्यमः ॥ ४२ ॥ पुस्तक लेखयामास स्वसुः श्रेयोर्थमांबडः । संतोषनाग्न्याः स्नेहेन पल्हणभ्रातृसंयुतः ॥ ४३ ॥ प्रोद्यन् यावदसौ बित्ति तपनः प्राचीपुरंध्रीमुखे कांतिव्यक्तदिशं सुवर्णतिलकश्रीसंनिभं विभ्रमम् । श्रीनाभेयजिनस्य चारु चरितं तावत्कथाचयकनंद्यादत्र विचार्यमाणमनघप्रज्ञैः सदा सौविदैः ॥ ४४ ।।