________________
EXTRACTS FROM MANUSCRIPTS
पण्यस्यापि न केवलैव महतो भांडस्य शाला कृता श्रीआद्यं वरिवस्यतां जिनपति येनात्र धर्मस्य च ॥ १६ ॥ भांडशालियशःपालस्याभवज्जयदेविका । औदार्यशीलप्रमुखैः प्रेयसी श्रेयसी गुणैः ॥ १७ ।। अभवंस्तयोस्तनूजाः सच्चरित्रा स्त्रयो गणैः । आनंददायिनः पित्रोरन्योन्यं प्रीतिशालिनः ॥ १८ ॥ आद्यः सुतः संश्रितधर्मकम्मा विवेकवेश्मा जानि पार्श्वदेवः । अभ्यर्थन - - - - - भीरुः प्रकल्पितश्रीजिननाथसेवः ॥ १९ ॥ अन्यो बभूवांबडनामधेयः कस्याप्यसंपादितचित्तपीडः । स्वकीयसंतानधराधुरीणः स्ववेश्मलक्ष्मोहृदयैकहारः ॥ २० ॥ सौचित्याचरणनिपुणः प्रीतिपूर्वोभिलापा
- - - - - - - - - - - - - - - - .
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
तार्तीयीकस्तदनु तनुजः पल्हणाख्यो बभूव ॥ २१ ॥ पार्श्वदेवस्य संजज्ञे पद्मश्रीनामिका प्रिया। यस्याः पतिव्रतात्वेन स्वकुलं निर्मलीकृतम् ॥ २२ ॥ अथांबडस्योचितकृत्यदक्षा मंदोदरी नाम बभूव पत्नी। स्फुरद्विवेकोज्ज्वलसारहारा स्वमंदिरे मूर्तिमतीव लक्ष्मीः ॥ २३ ॥ हरेरिव भुजादंडाश्चत्वारस्तनयास्तयोः । अजायत सदाचारगृहभारधुरंधराः ॥ २४ ॥ प्रथमोजनिष्ट तेषां पार्थकुमाराभिधो गुणैः प्रथमः । विनयदुमालवालः पित्राज्ञापालनप्रवणः ॥ २९ ॥